नित्यगुरुपरम्परा
श्रीस्तनाभरणं तेजः श्रीरङ्गेशयमाश्रये ।
चिन्तामणिमिवोद्भान्तमुत्सङ्केऽनन्तभोगिनः ॥१॥
नमःश्रीरङ्गनायक्यै यद्भ्रूविभ्रमभेदतः ।
ईशेशितव्य वैषम्यनिम्नोन्नतमिदं जगत् ॥२॥
श्रीरङ्गचन्द्रमसमिन्दिरया विहर्तुं
विन्यस्य विश्वचिदचिन्नयनाधिकारम् ॥
यो निर्वहत्यनिशमंगुलिमुद्रयैव
सेनान्यमन्यविमुखास्तमशिश्रियामः ॥३॥
ऋषिं जुषामहे कृष्ण तृष्णातत्वमिवोदितम् ।
सहस्रशाखां योऽद्राक्षीद् द्राविडीं ब्रहृमसंहिताम् ॥४॥
नमोऽ चिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽ गाध भगवद्भक्तिसिन्धवे ॥५॥
नमः पङ्कजनेत्राय नाथ श्रीपादपङ्कजे ।
न्यस्तसर्वभरायास्मत्कुलनाथाय धीमते ॥६॥
अयत्नतो यामुनमात्मदास-
मलर्कपत्रार्पण निष्क्रयेण ।
यः क्रीतवानास्थित यौवराज्यम्
नमामि तं रामममेयसत्वम् ॥७॥
यत्पदाम्भोरुहध्यान विध्वस्ताशेषकल्मषः ।
वस्तुतामुपयातोऽ हं यामुनेयं नमामि तम् ॥ ८॥
कमलापतिकल्याणगुणामृत निसेवया ।
पूर्ण कामाय सततं पूर्णाय महते नमः ॥९॥
रामानुजमुनिर्जीयाद्योहरेर्भक्तियन्त्रितः ।
कलि कोलाहल क्रीडा मुधाग्रहमपाहरत् ॥१०॥
रामानुजपदच्छाया गोविन्दाह्वानपायिनी ।
तदायत्तस्वरुपा सा जीयान्मद्विश्रमस्थली ॥११॥
श्रीवत्सचिह्न मिश्रेभ्यो नम उक्तिमधीमहे ।
यदुक्तयस्त्रयी कण्ठे यान्ति मङ्गलसूत्रताम् ॥१२॥
पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्यदासरथेःपादौ शिरसा धारयाम्यहम् ॥ १३
श्री पराशर भट्टार्यः श्रीरङ्कगेश पुरोहितः ।
श्रीवत्साङ्क सुतःश्रीमान् श्रेयसे मेऽ स्तु भूयसे ॥१४॥
नमो वेदान्तवेद्याय जगन्मङ्गलहेतवे ।
यस्य वागमृतासारपूरितं भुवनत्रयम् ॥१५॥
वेदान्त वेद्यामृतवारिराशे-
र्वेदार्थसारामृत पूरमग्र्यम् ॥
आदाय वर्षन्तमहं प्रपद्ये-
कारुण्यपूर्णं कलिवैरिदासम् ॥१६ ॥
श्रीमत्कृष्ण समाह्वाय नमो यामुनसूनवे ।
यत्कटाक्षैक लक्षाणां सुलभः श्रीधरः सदा ॥१७॥
श्री कृष्णपादपादाब्जे नमामि शिरसा सदा ।
यत्प्रसाद प्रभावेन सर्वसिद्धिरभून्मम ॥१८ ॥
लोकाचार्याय गुरवे कृष्णपादस्य सूनवे
संसार भोगिसन्दष्ट जीव जीवातवे नमः ॥१९॥
नमः श्रीशैलनाथाय कुन्तीनगर जन्मने ।
प्रसादलब्धपरमप्राप्यवैकैंकर्यशालिने ॥२०॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणाणर्वम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥२१॥
तोताद्रिमठ गुरुपरम्परा
रम्यजामातृयोगीन्द्र पादरेखामयं सदा ।
तदायत्तात्मसत्तादिं रामानुजमुनिं भजे ॥ १॥
कृपां व्योममहाशैलरामानुजमहामुनेः ।
संप्राप्येन्धानसद्वृत्तिं सेवे रामानुजं मुनिम् ॥ २॥
श्रीरामानुजयोगीन्द्रपदपङ्कजषट्पदम् ।
वात्सल्यादिगुणावासं रामानुजमुनिं भजे ॥ ३॥
सौम्योपयन्तृमुनिवर्यपदाब्जभृङ्गे
वानाद्रिसंयमिपदाम्बुरुहैकभोगे
रामानुजाहृवयमुनौ कृतसर्वभारम्
रामानुजं मुनिवरं शिरसा नमामि ॥ ४॥
श्रीमद्वानमहाशैलरामानुजमुनिप्रियम् ।
रामानुजमुनिं वन्दे ज्ञानादिगुणसागरम् ॥ ५॥
श्रीमद्वरमुनीन्द्रांघ्रिवानाचलमुनिप्रियम् ।
यतीन्द्रशठजिद्भक्तं रामानुजमुनिं भजे ॥ ६॥
श्रीमद्यतीन्द्रशठजिच्चरणारविन्द-
प्रेमाम्बुराशिवरयोगिपदाब्जभृङ्गे ।
वानाद्रियोगिनि सदा प्रणय प्रवीणम्
रामानुजं यतिपतिं प्रणमामि नित्यम् ॥ ७॥
श्रीमच्छठारियतिराड्वरयोगिभक्तम्
वानाद्रियोगिशरणं विलसद्गुणाढ्यम् ॥
विज्ञातवेदशिखरोभयसर्वभावम्
रामानुजं यतिपतिं शिरसा नमामि ॥ ८॥
श्रीमच्छठारियतिराट्पदपद्मभक्तम्
वानाद्रियोगिवरलब्धमहाप्रसादम् ।
सम्प्राप्तवेदशिखरोभयतत्वबोधम्
रामानुजं मुनिवरं गुरुमाश्रयामि ॥ ९ ॥
श्रीवानाचलयोगिवर्यकृपयासंसिद्धबोधोज्वलम्
श्रीरङ्गप्रभुवकेशराङ्ककलिजिद्रामानुजार्याश्रयम् ।
वेदान्तद्वयतत्वसारसुरभिव्याख्याकलिध्वंसिनम्
श्रीरामानुजयोगिराजमनघं कल्याणपूर्णं भजे ॥ १०॥
श्रीमद्वानाद्रियोगीन्द्रपदपङ्कजसंश्रयम् ।
श्रीरामानुजयोगीन्द्रं वन्दे वात्सल्यवारिधिम् ॥ ११॥
वानाचलमुनीन्द्रांघ्रिसरसीरुहषट्पदम् ।
वेदान्तवासितस्वान्तं रामानुजमुनिं भजे ॥ १२ ॥
श्रीमद्व्योममहाशैलयतिराट्पदसंश्रयम् ।
श्रुतश्रुत्यन्तयुगलं वन्दे रामानुजं मुनिम् ॥ १३॥
श्रीमद्व्योमाद्रियोगीन्द्रपादपद्ममधुव्रतम् ।
वेदान्तयुगनिष्णातं रामानुज मुनिं भजे ॥ १४ ॥
श्रीवेङ्कटेशकरुणाप्तसमस्तविद्यं
वानाद्रियोगिपदपङ्कजभृङ्गराजम् ।
वेदान्तयुग्मविशदीकरणप्रवीणम्
रामानुजं मुनिवरं शिरसा नमामि ॥ १५ ॥
श्रीमच्छठारिचरणाम्बुजराजहंसम्
श्रीवानशैलमुनिवर्यपदाब्जभृङ्गम् ।
आम्नायशीर्षयुगबोधनसम्प्रवीणम्
रामानुजं मुनिवरं शिरसा नमामि ॥ १६ ॥
श्रीवानाद्रिमुनीन्द्रपादजलजद्वन्दाश्रयादुल्लस -
द्धीभक्त्यादिगुणाम्बुराशिमनघं दीनात्मसञ्जीवनम् ।
श्रीवाग्भूषणगूढभावविशदीकारप्रवीणं सदा
श्रीरामानुजयोगिवर्यमतुलोदारस्वभावं भजे ॥ १७ ॥
विद्याज्ञानसुवृत्तमङ्गलगुणैः पूर्णस्य गोप्तुस्सताम्
पादाब्जे सुतरान्निविष्ट हृदयं वानाद्रियोगीशितुः ।
वेदान्तद्वयपारगं सुभगुणैर्जुष्टं सुशीलान्वितम्
वन्दे लक्ष्मणयोगिवर्यममलं वानाचलेशप्रियम् ॥ १८ ॥
श्रीवानशैलमुनिवर्यकटाक्षलब्ध-
वेदान्तयुग्मविशदीकरणप्रवीणम् ।
श्रीरंगराजपदपङ्कजभृङ्गराजम्
रामानुजं गुणनिधिं मुनिमाश्रयामः ॥ १९ ॥
शठरिपुयतिराट्श्रीरम्यजामातृयोगि
प्रवरगगनभूभृद्योगिसञ्जातभक्तिम् ।
शमदमगुणपूर्णं नौमि रामानुजाख्यं
परिचितनिगमान्तद्वन्द्वमार्यं यतीन्द्रम् ॥ २०॥
कान्तोपयन्तृमुनिवर्यकृपानिवासम्
श्रीवानशैलयतिराट् पदपद्महंसम् ।
त्रय्यन्तयुग्मविशदीकरणप्रवीणम्
रामानुजं यतिपतिं शिरसा नमामि ॥ २१॥
श्रीमद्व्योममहाद्रियोगिचरणद्वन्दारविन्दाश्रितम्
श्रीगोदापदपद्मयुग्मविलसद्भक्तिप्रकर्षोज्वलम् ।
त्रय्यन्तद्वयगूढभावविशदीकारप्रवीणं सदा
श्रीरामानुजयोगिराजमतुलं शीलादिपूर्णं भजे ॥ २२ ॥
श्रीमद्वानमहाद्रिसंयमिपदद्वन्द्वाब्जभृङ्गाधिपम्
श्रीमद्विष्णुहृदात्मजापदयुगे विन्यस्तभक्त्युज्वलम् ।
श्रुत्यन्तद्वयगूढभाव विशदीकार प्रवीणं सदा
श्रीरामानुजयोगिवर्यमनघं सेवे गुणाम्भोनिधिम् ॥२३॥
वानाद्रियोगिपदपङ्गजभक्तितत्वम्
ज्ञानादिसद्गुणगणामृतवारिराशिम् ।
श्रुत्यन्तयुग्मसुखबोधन सम्प्रवीणम्
रामानुजं मुनिवरं प्रणमामि नित्यम् ॥२४॥
श्रीमद्यतीन्द्रवरयोगिपदाब्जयुग्म
प्रेमाब्धिवानगिरियोगिदयैकपात्रम् ।
वेदान्तयुग्मविशदीकरणप्रवीणम्
रामानुजं मुनिवरं सततं नमामि ॥२५॥
श्रीवानाद्रियतीन्द्रपादजलजद्वन्द्वानुरागोज्ज्वलम्
श्रीरङ्गेश्वरपादपद्मविलसत्सेवानिबद्धादरम् ।
आम्नायद्वयशेखरार्थविशदीकारप्रवीणं सदा
श्रीरामानुजयोगिराजमतुलं सेवे दयाम्भोनिधिम् ॥२६॥
श्रीमच्छठारिकलिजिद्यतिराजसौम्य
जामातृवानगिरियोगिपदाब्जभक्तम् ।
श्रुत्यन्तयुग्मसुखबोधन सम्प्रवीणम्
रामानुजं मुनिवरं गुरुमाश्रयामः ॥२७॥
श्रीभाष्यकारवरयोगिपदारविन्द
प्रेमाम्बुराशिगगनाद्रिमुनीन्द्रभक्तम् ।
वेदान्तयुग्मसुखबोधनसम्प्रवीणम्
रामानुजं यतिवरं गुरुमाश्रयामः ॥ २८॥
श्रीमच्छठारियतिराजपदाब्जभृङ्गम्
सौम्योपयन्तृगगनाद्रिमुनीन्द्रभक्तम् ।
त्रय्यन्तयुग्मविशदीकरणप्रवीणम्
श्रीभट्टनाथमुनिवर्यमहं भजामि ॥ २९॥
श्रीमद्यतीन्द्रवरयोगिपदाब्जभृङ्गम्
श्रीवानशैलमुनिवर्यदयैकपात्रम् ।
विख्यातवेदशिखरोभयतत्वबोधम्
रामानुजं कलिजितं मुनिमाश्रयामः ॥३०॥
श्रीवेङ्कटेश मन्दिर देवस्थानका महामहीमहरू जसले आफ्नो योगदानले भगवानको दिव्यमुखोल्लास गर्नुभयो उहाँहरूका ऐतिहासिक तनियन्
नारायणयार्ययतिशेखरपादभक्तं,
गोपालदेशिकवराप्तसमस्तबोधम् ।
श्रीजानकीशचरणार्पितमानसाब्जम्,
नारायणार्ययतीवर्यमहं प्रपद्ये ॥
श्रीवैष्णवान्वयपयोनिधिपूर्णशोभं
वानाद्रियोगिपदपङ्कजभृङ्गराजम् ।
श्रीरामदेशिकवरेण्यकृपाकटाक्षं,
श्रीबालदेशिकमहं शरणं प्रपद्ये ॥
श्रीमद्यतीन्द्रवरयोगिपदाब्जभृङ्गम्,
श्रीवानशैलयमिनां करुणैपात्रम् ।
शान्त्यादिसद्गुणनिधानमनन्तविद्यं,
श्रीश्रीनिवासगुरुवर्यमहं प्रपद्ये ॥
श्रीवैष्णवाऽत्रिमुनिवंशकुलप्रदीपं,
श्रीवानशैलयमिनां करुणैकपात्रम् ।
श्रीबालदेशिकपदाम्बुरुहैकनिष्ठम् ,
तोताद्रिदेशिकमहं शरणं प्रपद्ये ॥
श्रीवानशैलकलिजिन्मुनिपादशिष्यां,
श्रीवेङ्कटेशशरणाम्बजमर्चयन्तीम् ।
पूर्वार्यसूरिहरिदाससुपोषयन्तीं,
नित्यं भजामि गरुडध्वजदिव्य दासीम् ॥
श्रीवैष्णवान्वयपयोनिधिपूर्णचन्द्रम् ,
श्रीवानशैलयमिनां करुणैकपात्रम् ।
श्रीश्रीनिवासचरणाम्बुज भृङ्गराजं,
श्रीराधवेन्द्र गुरुवर्यमहं प्रपद्ये ॥
वानाद्रियोगि पदपङ्कजभृङ्गराजं,
श्रीबालदेशिकपदाब्जरसैकभृङ्गम् ।
श्रीरामदेशिककृपालसदात्मबोधं
(श्री) गोविन्ददेशिकमहं शरणं प्रपद्ये ॥
कलिजितः पदपङ्कजषट्पदं,
यतिवर कमलेक्षणसेवकम् ।
सुरवरार्यकृपाप्तपराश्रमं
तमिह देवसुनायकमाश्रये ॥
श्रीपद्मधराचार्य स्वामीजीको तनियन्
नारायणार्य यतिशेखर पादभक्तं,
गोविन्ददेशिकपदाब्जरसैकभृङ्गम् ।
श्रीराधवेन्द्रमुनितोऽर्जितशास्त्रबोधं,
श्रीपद्मनाभ गुरुवर्यमहं प्रपद्ये ॥
श्रीवानाद्रिमुनीन्द्रपादकमलद्वन्दैकसेवारतं ।
गोविन्दार्यगुरोः पदाब्जमधुपं लक्ष्मीशपूजारतम् ॥
श्रीमद्देशिकराघवेन्द्रकृपया संलब्धबोधं सदा ।
श्रीमद् पद्मधरार्यसद्गुरुवरं वन्दे कृपासागरम्
॥ इति गरुपरम्परा समाप्ता ॥