पञ्चस्तव्यां सुन्दरबाहुस्तवः

Sri App
पञ्चस्तव्यां 

 सुन्दरबाहुस्तवः


श्रीमते हयग्रीवाय नमः 
॥ श्रीमते रामानुजाय नमः ॥

श्रीवत्सचिह्नमिश्रेभ्यो नमौक्तिमधीमहे ।
यदुक्तयस्त्रयीकण्ठे यान्ति मङ्गलसूत्रताम् ॥

श्रीमन्तौ हरिचरणौ समाश्रितोऽहं
 श्रीरामावरजमुनीन्द्रलब्धबोधः ।
निर्भीकस्तत इह सुन्दरोरुबाहुं स्तोष्ये
 तच्चरणविलोकनाभिलाषी ॥ १॥

सुन्दरायतभुजं भजामहे 
वृक्षषण्डमयमद्रिमास्थितम् ।
यत्र सुप्रथितनूपुरापगा-
तीर्थमर्थितफलप्रदं विदुः ॥ २॥

क्वचित्त्वरितगामिनी क्वचन मन्दमन्दलसा
     क्वचित्स्खलितविह्वला क्वचन फेनिला सारवा ।
पतन्त्यपि किल क्वचिद्व्रजति नूपुराह्वा नदी
     सुसुन्दरभुजाह्वयं मधु निपीय मत्ता यथा ॥ ३॥

उदधिगमन्दराद्रिमथिमन्थनलब्धप-
     योमधुररसेन्दिराह्वसुधसुन्दरदोःपरिघम् ।
अशरणमादृशात्मशरणं शरणार्थिजन-
     प्रवणधियं भजेम तरुषण्डमयाद्रिपतिम् ॥ ४॥

शशधररिङ्खणाढ्यशिखमुच्छिखरप्रकरं-
      तिमिरनिभप्रभूततरुषण्डमयं भ्रमदम् ।
वनगिरिमावसन्तमुपयामि हरिं शरणं-
      भिदुरितसप्तलोकसुविश‍ृङ्खलशङ्खरवम् ॥ ५॥

यत्तुङ्गश‍ृङ्गविनिषङ्गिसुराङ्गनानां-
      न्यस्तोर्ध्वपुण्ड्रमुखमण्डनमण्डितानाम् ।
दर्पण्यभूद्धृतमपाङ्कशशाङ्कपृष्ठं-
      तद्धाम सुन्दरभुजस्य महान् वनाद्रिः ॥ ६॥

यदीयशिखरागतां शशिकलां तु शाखामृगा-
      निरीक्ष्य हरशेखरीभवनमामृशन्तस्ततः ।
स्पृशन्ति न हि देवतान्तरसमाश्रितेति स्फुटं-
      स एष सुमहातरुव्रजगिरिर्गृहं श्रीपतेः ॥ ७॥

सुन्दरदोर्दिव्याज्ञालम्भनका-
तरवशानुयायिनि करिणि ।
प्रणयजकलहसमाधिर्यत्र 
वनाद्रिस्स एष सुन्दरदोष्णः ॥ ८॥

स एष सौन्दर्यनिधेर्धृतश्रियो 
वनाचलो नाम सुधाम यत्र हि ।
भुजङ्गराजस्य कुलस्य गौरवान्
 न खण्डिताः कुण्डलिनश्शिखण्डिभिः ॥ ९॥

वृषगिरिरयमच्युतस्य यस्मिन् 
स्वमतमलङ्घयितुं परस्परेभ्यः ।
खगतिचरणौ खगाश्शपन्ते 
भुजगपतेर्भुजगाश्च सर्व एव ॥ १०॥

हरिकुलमखिलं हनूमदङ्घ्रिं 
स्वकुलपजाम्बवतस्तथैव भल्लाः ।
निजकुलपजटायुषश्च गृध्राः 
स्वकुलपतेश्च गजा गजेन्द्रनाम्नः ॥ ११॥

वकुलधरसरस्वतीविषक्त
स्वररसभावयुतासु किन्नरीषु ।
द्रवति दृषदपि प्रसक्तगाना-
स्विह वनशैलतटीषु सुन्दरस्य ॥ १२॥

भृङ्गी गायति हंसतालनिभृतं तत्पुष्णती कोकिला-
     ऽप्युद्गायत्यथ वल्लितल्लजमुखादास्रं मधु स्यन्दते ।
निष्पन्दस्तिमिताः कुरङ्गततयश्शीतं शिलासैकतं
     सायाह्ने किल यत्र सुन्दरभुजस्तस्मिन्वनक्ष्माधरे ॥ १३॥

पीताम्बरं वरदशीतलदृष्टिपात-
     माजानुलम्बिभुजमायतकर्णपाशम् ।
श्रीमन्महावनगिरीन्द्रनिवासदीक्षं
     लक्ष्मीधरं किमपि वस्तु ममाविरस्तु ॥ १४॥

जनिजीवनाप्ययविमुक्तयो यतो 
जगतामिति श्रुतिशिरस्सु गीयते ।
तदिदं समस्तदुरितैकभेषजं 
वनशैलसम्भवमहं भजे महः ॥ १५॥

सद्ब्रह्मात्मपदैस्त्रयीशिरसि यो नारायणोक्त्या तथा
     व्याख्यातो गतिसाम्यलब्धविषयानन्यत्वबोधोज्ज्वलैः ।
निस्तुल्याधिकमद्वितीयममृतं तं पुण्डरीकेक्षणं
     प्रारूढश्रियमाश्रये वनगिरेः कुञ्जोदितं सुन्दरम् ॥ १६॥

पतिं विश्वस्यात्मेश्वरमिति परं ब्रह्म पुरुषः
     परं ज्योतिस्तत्वं परमिति च नारायण इति ।
श्रुतिर्ब्रह्मेशादींस्तदुदितविभूतींस्तु गृणती
     यमाहारूढश्रीस्स वनगिरिधामा विजयते ॥ १७॥

पृथिव्याद्यात्मान्तं नियमयति यस्तत्त्वनिकरं
     तदन्तर्यामी तद्वपुरविदितस्तेन भगवान् ।
स एष स्वैश्वर्यं नविजहदशेषं वनगिरिं
     समध्यासीनो नो विशतु हृदयं सुन्दरभुजः ॥ १८॥

प्रत्यगात्मनि कदाऽप्यसम्भवद् 
 भूमभूमिमभिवक्ति यं श्रतिः ।
तं वनाद्रिनिलयं सुसुन्दरं 
सुन्दरायतभुजं भजामहे ॥ १९॥

वन्देय सुन्दरभुजं भुजगेन्द्रभोग-
     सक्तं महावनगिरिप्रणयप्रवीणम् ।
यं तं विदुर्दहरमष्टगुणोपजुष्टं
     आकाशमौपनिषदीषु सरस्वतीषु ॥ २०॥

यत्स्वायत्तस्वरूपस्थितिकृतिकनिजेच्छानियाम्यस्वशेषा-
     नन्ताशेषप्रपञ्चस्तत इह चिदिवाचिद्वपुर्वाचिशब्दैः ।
विश्वैश्शब्दैः प्रवाच्यो हतवृजिनतया नित्यमेवानवद्य-
     स्तं वन्दे सुन्दराह्वं वनगिरिनिलयं पुण्डरीकायताक्षम् ॥ २१॥

गुणजं गुणिनो हि मङ्गलत्वं 
प्रमितं प्रत्युत यत्स्वरूपमेत्य ।
तमनन्तसुखावबोधरूपं 
विमलं सुन्दरबाहुमाश्रयामः ॥ २२॥

अतिपतितावधिस्वमहिमानुभवप्रभवत्सुख-
     कृतनिस्तरङ्गजलधीयितनित्यदशम् ।
प्रतिभटमेव हेयनिकरस्य सदाऽप्रतिमं
     हरिमिह सुन्दराह्वमुपयामि वनाद्रितटे ॥ २३॥

सदा षाड्गुण्याख्यैः पृथुलबलविज्ञानशकन-
     प्रभावीर्यैश्वर्यैरवधिविधुरैरेधितदशम् ।
द्रुमस्तोमक्ष्माभृत्परिसरमहोद्यानमुदितं
     प्रपद्येऽध्यारूढश्रियमिममहं सुन्दरभुजम् ॥ २४॥

सौशील्याश्रितवत्सलत्वमृदुतासौहार्दसाम्यार्जवैः-
     धैर्यस्थैर्यसुवीर्यशौर्यकृतितागाम्भीर्यचातुर्यकैः ।
सौन्दर्यान्वितसौकुमार्यसमतालावण्यमुख्यैर्गुणै-
     र्देवः श्रीतरुषण्डशैलनिलयो नित्यं स्थितस्सुन्दरः ॥ २५॥

येष्वेकस्य गुणस्य विप्रुडपि वै लोकोत्तरं स्वाश्रयं
     कुर्यात्तादृशवैभवैरगणितैर्निस्सीमभूमान्वितैः ।
नित्यैर्दिव्यगुणैस्ततोऽधिकशुभत्वैकास्पदात्माश्रयै-
     रिद्धं सुन्दरबाहुमस्मि शरणं यातो वनाद्रीश्वरम् ॥ २६॥

सदा समस्तं जगदीक्षते हि यः 
प्रत्यक्षदृष्ट्या युगपद्भुवा स्वतः ।
स ईदृज्ञाननिधिर्निधिस्तुर्ना-
स्सहाद्रिकुञ्जेषु चकास्ति सुन्दरः ॥ २७॥

ऐश्वर्यतेजोबलवीर्यशक्तयः 
कीदृग्विधास्सुन्दरबाहुसंश्रयाः ।
योऽसौ जगज्जन्मलयस्थितिक्रिया-
स्सङ्कल्पतोऽल्पादुपकल्पयत्यजः ॥ २८॥

यत्कल्पायुतभोगतोऽपि कृशतां यायान्न तावत्फलं
येष्वेकस्य तथाविधैस्सततजैरंहोभिरुत्सीमभिः ।
अस्तादाविह संसृतावुपचितैश्छन्नं सुसन्नं जनं
सन्नत्या क्षमते क्षणाद्वनगिरिप्रस्थप्रियस्सुन्दरः ॥ २९॥

यज्जातीयो यादृशो यत्स्वभावः 
पादच्छायां संश्रितो योऽपि कोऽपि ।
तज्जातीयस्तादृशस्तत्स्वभावः 
श्लिष्यत्येनं सुन्दरो वत्सलत्वात् ॥ ३०॥

निहीनो जात्या वा भृशमकृशलैर्वा स्वचरितैः
     पुमान्वै यः कश्चिद्बहुतृणमपि स्यादगुणतः ।
भजन्तं तं पश्येद्भुजगपतिना तुल्यमपि यो
     वनाद्रिप्रस्थस्थस्स मम शरणं सुन्दरभुजः ॥ ३१॥

एकैकमङ्लगुणानुभवाभिनन्द-
     मीदृक्त्वियानिति च सुन्दरदोष्णि कृष्णे ।
ते ये शतं त्विति नियन्तुमनाश्श्रुतिर्है
     नैवैष वाङ्मनसगोचर इत्युदाह ॥ ३२॥

अब्जपादमरविन्दलोचनं 
पद्मपाणितलमञ्जनप्रभम् ।
सुन्दरोरुभुजमिन्दिरापतिं 
वन्दिषीय वरदं वनाद्रिगम् ॥ ३३॥

कनकमरतकाञ्जनद्रवाणां 
मथनसमुत्थितसारमेलनोत्थम् ।
जयति किमपि रूपमस्य तेजो 
वनगिरिनन्दनसुन्दरोरुबाहोः ॥ ३४॥

किन्नु स्वयं स्वात्मविभूषणं भवन्
न सावलङ्कार इतीरितो जनैः ।
वर्धिष्णुबालद्रुमषण्डमण्डितं 
वनाचलं वा परितः प्रसाधयन् ॥ ३५॥

सुखस्पर्शैर्नित्यैः कुसुमसुकुमाराङ्गसुखदैः
     सुसौगन्ध्यैर्दिव्याभरणगणदिव्यायुधगणैः ।
अलङ्कार्यैस्सर्वैर्निगदितमलङ्गार इति य-
     स्समाख्यानं धत्ते स वनगिरिनाथोऽस्तु शरणम् ॥

मकुटमकुटमालोत्तंसचूडाललाम-
     स्वलकतिलकमालाकुण्डलैस्सोर्ध्वपुण्ड्रैः ।
मणिवरवनमालाहारकेयूरकण्ठ्यै-
     स्तुलसिकटककाञ्चीनूपराद्यैश्च भूषैः ॥ ३७॥

असिजलजरथाङ्गैश्शार्ङ्गकौमोदकीभ्या-
     मगणितगुणजालैरायुधैरप्यथान्यैः ।
सततविततशोभं पद्मनाभं वनाद्रे-
     रुपवनसुखलीलं सुन्दरं वन्दिषीय ॥ ३८॥

आजानजस्वगतबन्धुरगन्धलुब्ध-
     भ्राम्यद्विदग्धमधुपालिसदेशकेशम् ।
विश्वाधिराज्यपरिबर्हकिरीटराजं
     है सुन्दरस्य बत ! सुन्दरमुत्तमाङ्गम् ॥ ३९॥

अन्धं तमस्तिमिरनिर्मितमेव यत्स्या-
     त्तत्सारसाधितसुतनत्वतिवृत्तवार्तम् ।
ईशस्य केशवहरेरलकालिजालं
     तत्तुल्यकुल्यमधुपाढ्यमहावनस्य ॥ ४०॥

जुष्टाष्टमीकज्वलदिन्दुसन्निभं 
धृतोर्ध्वपुण्ड्रं विलसद्विशेषकम् ।
भूम्ना ललाटं विमलं विराजते 
वनाद्रिनाथस्य समुच्छ्रितश्रियः ॥ ४१॥

सुचारुचापद्वयविभ्रमं भ्रूवो
युगं सुनेत्राह्वसहस्रपत्रयोः ।
उपान्तगं वा मधुपावलीयुगं 
विराजते सुन्दरबाहुसंश्रयम् ॥ ४२॥

अदीर्घमप्रेमदुघं क्षणोज्ज्वलं 
नचोरमन्तःकरणस्य पश्यताम् ।
अनुब्जमब्जं नु कथं निदर्शनं 
वनाद्रिनाथस्य विशालयोर्दृशोः ॥ ४३॥

प्रश्च्योतत्प्रेमसारामृतरसचुलकप्रक्रमप्रक्रियाभ्यां
     विक्षिप्तालोकितोर्मिप्रसरणमुषितस्वान्तकान्ताजनाभ्याम् ।
विश्वोत्पत्तिप्रवृत्तिस्थितिलयकरणैकान्तशान्तक्रियाभ्यां
     देवोऽलङ्कारनामा वनगिरिनिलयो वीक्षतामीक्षणाभ्याम् ॥ ४४॥

प्रेमामृतौघपरिवाहिमहाक्षिसिन्धु-
     मध्ये प्रबद्धसमुदञ्चितसेतुकल्पा ।
ऋज्वी सुसुन्दरभुजस्य विभाति नासा
     कल्पद्रुमाङ्कुरनिभा वनशैलभर्तुः ॥ ४५॥

व्याभाषिताभ्यधिकनन्दनभन्दनर्द्धि
मन्दस्मितामृतपरिस्रवसंस्तवाढ्यम् ।
आभाति विद्रुमसमाधरमास्यमस्य 
देवस्य सुन्दरभुजस्य वनाद्रिभर्तुः ॥ ४६॥

यशोदाङ्गुल्यग्रोन्नमितचुबुकाघ्राणमुदितौ
     कपोलावद्यापि ह्यनुपरततद्धर्षगमकौ ।
विराजेते विश्वग्विततसहकारासवरस-
     प्रमाद्यद्भृङ्गाढ्यद्रुमवनगिरेस्सुन्दरहरेः ॥ ४७॥

व्यालम्बिकुण्डलमुदग्रसुवर्णपुष्प-
     निष्पन्नकल्पलतिकायमलानुकारम् ।
यत्कर्णपाशयुगलं निगलं धियां न-
     स्सोऽयं सुसुन्दरभुजो वनशैलभूषा ॥ ४८॥

सदंससंसञ्जितकुन्तलान्तिका
वतीर्णकर्णाभरणाढ्यकन्धरः ।
सुबन्धुरस्कन्धनिबन्धनो युवा
 सुसुन्दरस्सुन्दरदोर्विजृम्भते ॥ ४९॥

व्यूढगूढभुजजत्रुमुल्लसत् 
कम्बुकन्धरधरं धराधरम् ।
वृक्षषण्डमयभूभृतस्तटे 
सुन्दरायतभुजं भजामहे ॥ ५०॥

मन्दरभ्रमणविभ्रमोद्भटा-
स्सुन्दरस्य विलसन्ति बाहवः ।
इन्दिरासमभिनन्दभन्दना-
श्चन्दनागरुविलेपभूषिताः ॥ ५१॥

ज्याकिणाङ्कपरिकर्मधर्मिणो 
भान्ति सुन्दरभुजस्य बाहवः ।
पारिजातविटपायितर्द्धयः
 प्रार्थितार्थपरिदानदीक्षिताः ॥ ५२॥

सागराम्बरतमालकान
नश्यामलर्द्धय उदारपीवराः ।
शेषभोगपरिभोगभागिन-
स्तन्निभा वनगिरीशितुर्भुजाः ॥ ५३॥

अहमहमिकाभाजो गोवर्धनोद्धृतिनर्मणि
     प्रमथनविधावब्धेर्लब्धप्रबन्धसमक्रियाः ।
अभिमतबहूभावाः कान्ताभिरम्भणसम्भ्रमे
     वनगिरिपतेर्बाहाश्शुम्भन्ति सुन्दरदोर्हरेः ॥ ५४॥

श्रीमद्वनाद्रिपतिपाणितलाब्जयुग्म
मारूढयोर्विमलशङ्खरथाङ्गयोस्तु ।
एकोऽब्जमाश्रित इवोत्तमराजहंसः 
पद्मप्रियोऽर्क इव तत्समितो द्वितीयः ॥ ५५॥

लक्ष्म्याः पदं कौस्तुभसंस्कृतं च
 श्रीवत्सभूमिर्विमलं विशालम् ।
विभाति वक्षो वनमालयाऽऽढ्यं 
वनाद्रिनाथस्य सुसुन्दरस्य ॥ ५६॥

सौन्दर्यामृतसारपूरपरिवाहावर्तगर्तायितं
     यातः किञ्च विरिञ्चसम्भवनभूम्यम्भोजसम्भूतिभूः ।
नाभिश्शुम्भति कुम्भिकुम्भनिभनिर्भातस्तनस्वर्वधू-
     सम्भुक्तद्रुमषण्डशैलवसतेरारूढलक्ष्म्या हरेः ॥

सुन्दरस्य किल सुन्दरबाहोः 
श्रीमहातरुवनाचलभर्तुः ।
हन्त ! यत्र निवसन्ति जगन्ति 
प्रापितक्रंशिम तत्तनु मध्यम् ॥ ५८॥

पिष्टदुष्टमधुकैटभकीटौ 
हस्तिहस्तयुगलाभसुवृत्तौ ।
राजतः क्रमकृशौ च सदूरू 
सुन्दरस्य वनभूधरभर्तुः ॥ ५९॥

यौवनवृषककुदोद्भेदनिभं नितरां 
भाति विभोरुभयं जानु शुभाकृतिकम् ।
सुन्दरभुजनाम्नो मन्दरमथिताब्धे-
श्चन्दनवनविलसत्कन्दरवृषभपतेः ॥ ६०॥

अधोमुखं न्यस्तपदारविन्दयो
रुदञ्चितोदात्तसुनालसन्निभे ।
विलङ्घ्य जङ्घे क्व नु रंहतो दृशौ 
वनाद्रिनाथस्य सुसुन्दरस्य मे ॥ ६१॥

सुसुन्दरस्यास्य पदारविन्दे
     पदारविन्दाधिकसौकुमार्ये ।
अतोऽन्यथा ते बिभृयात्कथं नु
     तदासनं नाम सहस्रपत्रम् ॥ ६२॥

सौन्दर्यमार्दवसुगन्धरसप्रवाहै-
     रेते हि सुन्दरभुजस्य पदारविन्दे ।
अम्भोजडम्भपरिरम्भणमभ्यजैष्टां
     तद्वै पराजितमिमे शिरसा बिभर्ति ॥ ६३॥

एते ते बत ! सुन्दराह्वयजुषः पादारविन्दे शुभ
     यन्निर्णेजसमुत्थितत्रिपथगास्रोतस्सु किञ्चित्किल ।
धत्तेऽसौ शिरसा ध्रुवस्तदपरं स्रोतो भवानीपति-
     र्यस्यास्यालकनन्दिकेति निजगुर्नामैवमन्वर्थकम् ॥ ६४॥

आम्नायकल्पलतिकोत्थसुगन्धिपुष्पं योगीन्द्रहार्दसरसीरुहराजहंसम् ।
उत्पक्वधर्मसहकारफलप्रकाण्डं 
वन्देय सुन्दरभुजस्य पदारविन्दम् ॥ ६५॥

सुसुन्दरस्यास्य तु वामनाकृतेः 
क्रमत्रयप्रार्थिनि मानसे किल ।
इमे पदे तावदिहासहिष्णुनी 
विचक्रमाते त्रिजगत्पदद्वये ॥ ६६॥

सौन्द्रर्यसारामृतसिन्धुवीचि
श्रेणीषु पादाङ्गुलिनामिकासु ।
न्यक्कृत्य चन्द्रश्रियमात्मकान्त्या 
नखावली शुम्भति सुन्दरस्य ॥ ६७॥

यो जातक्रशिमा मली च शिरसा सम्भावितश्शम्भुना
     सोऽयं यच्चरणाश्रयी शशधरो नूनं नखव्याजतः ।
पूर्णत्वं विमलत्वमुज्ज्वलतया सार्धं बहुत्वं तथा
     यातस्तं तरुषण्डशैलनिलयं वन्दामहे सुन्दरम् ॥ ६८॥

यस्याः कटाक्षणमनुक्षणमीश्वराणा
मैश्वर्यहेतुरिति सर्वजनीनमेतत् ।
श्रीस्सेति सुन्दरनिषेवणतो निराहु
स्त्वां हि श्रियश्श्रियमुदाहुरुदारवाचः ॥ ६९॥

दिव्याचिन्त्यमहाद्भुतोत्तमगुणैस्तारुण्यलावण्यक-
     प्रायैरद्भुतभावगर्भसततापूर्वप्रियैर्विभ्रमैः ।
रूपाकारविभूतिभिश्च सदृशीं नित्यानपेतां श्रियं
     नीला भूमिमपीदृशीं रमयिता नित्यं वनाद्रीश्वरः ॥

अन्योन्यचेष्टितनिरीक्षणहार्दभाव
प्रेमानुभावमधुरप्रणयप्रभावः ।
आजस्रनव्यतरदिव्यरसानुभूति
स्त्वां प्रेयसीं रमयिता वनशैलनाथः ॥ ७१॥

सुन्दरस्य वनशैलवासिनो 
भोगमेव निजभोगमाभजन् ।
शेष एष इति शेषताकृतेः 
प्रीतिमानहिपतिस्स्वनामनि ॥ ७२॥

वाहनासनवितानचामराद्या-
कृतिः खगपतिस्त्रयीमयः ।
नित्यदास्यरतिरेव यस्य वै 
ह्येष सुन्दरभुजो वनाद्रिगः ॥ ७३॥

वनाद्रिनाथस्य सुसुन्दरस्य वै 
प्रभुक्तशिष्टाश्यथ सैन्यसत्पतिः ।
समस्तलोकैकधुरन्धरस्सदा 
कटाक्षवीक्ष्योऽस्य च सर्वकर्मसु ॥ ७४॥

छत्रचामरमुखाः परिच्छदा
स्सूरयः परिजनाश्च नैत्यगाः ।
सुन्दरोरुभुजमिन्घते सदा 
ज्ञानशक्तिमुखनित्यसद्गुणाः ॥ ७५॥

द्वारनाथगणनाथतल्लजाः 
पारिषद्यपदभागिनस्तथा ।
मामकाश्च गुरवः पुरातना-
स्सुन्दरं वनमहीध्रगं श्रिताः ॥ ७६॥

ईदृशैः परिजनैः परिच्छदै-
र्नित्यसिद्धनिजभोगभूमिगः ।
सुन्दरो वनगिरेस्तटीषु वै 
रज्यते सकलदृष्टिगोचरः ॥ ७७॥

अक्रीडभूमिषु सुगन्धिषु पौष्पिकीषु
     वैकुण्ठधामनि समृद्धसुवापिकासु ।
श्रीमल्लतागृहवतीषु यथा तथैव
     लक्ष्मीधरस्सजति सिंहगिरेस्तटीषु ॥ ७८॥

आनन्दमन्दिरमहामणिमण्डपान्तर्लक्ष्म्या
     भुवाऽप्यहिपतौ सह नीलया च ।
निस्सङ्ख्यनित्यनिजदिव्यजनैकसेव्यो
     नित्यं वसन् सजति सुन्दरदोर्वनाद्रौ ॥ ७९॥

प्रत्यर्थिनि त्रिगुणकप्रकृतेरसीम्नि
     वैकुण्ठधामनि पराम्बरनाम्नि नित्ये ।
नित्यं वसन्परमसत्वमयेऽप्यतीत-
     योगीन्द्रवाङ्मनस एष हरिर्वनाद्रौ ॥ ८०॥

लोकांश्चतुर्दश दधत् किल सुन्दरस्य
     पङक्तीगुणोत्तरितसप्तवृतीदमण्डम् ।
अन्यानि चास्य सुसन्दृशि परश्शतानि
     क्रीडाविधेरिह परिच्छदतामगच्छन् ॥ ८१॥

सुरनरतिर्यगादिबहुभेदकभिन्नमिदं
     जगदथ चाण्डमण्डवरणानि च सप्त तथा ।
गुणपुरुषौ च मुक्तपुरुषाश्च वनाद्रिपते-
     रुपकरणानि नर्मविधयेऽपि भवन्ति विभोः ॥ ८२॥

ज्ञानिनस्सततयोगिनस्तु ये
 सुन्दराङ्घ्रिपरभक्तिभागिनः ।
मुक्तिमाप्य परमां परे पदे 
नित्यकिङ्करपदं भजन्ति ते ॥ ८३॥

देवस्य सुन्दरभुजस्य वनाद्रिभर्तु-
     र्है शीलवत्त्वमथवाऽऽश्रितवत्सलत्वम् ।
ऐशस्वभावमजहद्भिरिहावतारै-
     र्योऽलञ्चकार जगदाश्रिततुल्यधर्मा ॥ ८४॥

सिंहाद्रिनाथ! तव वाङ्मनसातिवृत्तं
     रूपं त्वतीन्द्रियमुदाह रहस्यवाणी ।
एवं च न त्वमिह चेत्समवातरिष्य-
     स्त्वज्ज्ञानभक्तिविधयोऽद्य मुधाऽभविष्यन् ॥ ८५॥

ये भक्ता भवदेकभोगमनसोऽनन्यात्मसञ्जीवना
     तत्संश्लोषणतद्विरोधिनिधनाद्यर्थं वनाद्रीश्वर! ।
मध्येऽण्डं यदवातरस्सुरनराद्याकारदिव्याकृति-
     स्तेनैव त्रिदशैर्नरैश्च सुकरं स्वप्रार्थितप्रार्थनम् ॥

श्रीमन्महावनगिरीशविधीशयोस्ते
     मध्ये तु विष्णुरिति यः प्रथमावतारः ।
तेनैव चेत्तव महिम्नि जनाः किलान्धा-
     स्त्वन्मत्स्यभावमवगम्य कथं भवेयुः ॥ ८७॥

हे देव! सुन्दरभुज! त्वमिहाण्डमध्ये
     सौलभ्यतो विसदृशं चरितं महिम्नः ।
अङ्गीकरोषि यदि तत्र सुरैरमीभि-
     स्साम्यान्निकर्षपरिपालनमेव साधु ॥ ८८॥

इहावतीर्णस्य वनाद्रिनाथ! ते 
निगूहतः स्वं महिमानमैश्वरम् ।
उमापतेः किं विजयः प्रियङ्करः
 प्रियङ्करा वेन्द्रजिदस्त्रबन्धना ॥ ८९॥

पुच्छोत्पुच्छनमूर्च्छनोद्धतिधुतव्यावर्तितावर्तवत्-
     संवर्तार्णवनीरपूरविलुठत्पाठीनदिव्याकृतेः ।
सिंहाद्रीश न वैभवं तव कथं स्वालक्ष्यमालक्ष्यते
     पद्माक्षस्य जुघुक्षतोऽपि विभवं लक्ष्मी-धराधोक्षज! ॥ ९०॥

साचलावटतटाकदीर्घिका
जाह्नवीजलविवर्धितः क्षये ।
श‍ृङ्गसङ्गमितनौर्मनोरभू-
रग्रतोऽण्डजवपुर्हि सुन्दर! ॥ ९१॥

प्रलयजनीरपूरपरिपूरितस्वनिलयावसन्नवदनभ्रमद-
     शरण्यभूतशरणार्थिनाकिशरणं भवन् स्वकृपया ।
चलदुदधीरिताम्बुकलुषीक्रियाढ्यगमनस्वपृष्ठविधृता-
     चलकुल एष मीनतनुरत्र सुन्दरभुजो वनाद्रिनिलयः ॥ ९२॥

स्वपृष्ठे प्रष्ठाद्रिभ्रमणकरणैः किञ्च फणिनः
     विकृष्टिव्याकृष्टिव्यतिविधुतदुग्धाब्धिचलितैः ।
अविस्पन्दो नन्दन् विकसदरविन्देक्षणरुचिः
     पुराऽभूस्सिंहाद्रेः प्रियतम ! हरे ! कच्छवपुः ॥ ९३॥

जगत्प्रलीनं पुनरुद्दिधीर्षत-
स्सिंहक्षितिक्षिन्निलयस्थ ! सुन्दर ! ।
पुरा वराहस्य तवेयमुर्वरा
 दंष्ट्राह्वयेन्दोः किल लक्ष्य लक्षिता ॥ ९४॥

न वायुः पस्पन्दे ययतुरथवाऽस्तं शशिरवी
     दिशोऽनश्यन् विश्वाऽप्यचलदचला साचलकुला ।
नभश्च प्रश्च्योति क्वथितमपि पाथो नरहरौ
     त्वयि स्तम्भे शुम्भद्वपुषि सति हे सुन्दरभुज ! ॥

अरालं पातालं त्रिदशनिलयः प्रापितलयो
     धरित्री निर्धूता ययुरपि दिशः कामपि दिशम् ।
अजृम्भिष्टाम्भोधिर्घुमुघुमिति घूर्णन् सुररिपोः
     विभिन्दाने वक्षस्त्वयि नरहरौ सुन्दरभुज ! ॥

नखक्रकचकप्रथिक्रथितदैत्यवक्षःस्थली-
     समुत्थरुधिरच्छटाच्छुरितबिम्बितं स्वं वपुः ।
विलोक्य रुषितः पुनः प्रतिमृगेन्द्रशङ्काव-
     शाद्य एष नरकेसरी स इह दृश्यते सुन्दरः ॥ ९७॥

क्षितिरियं जनिसंहृतिपालनैः 
निगिरणोद्गिरणोद्धरणैरपि ।
वनगिरीश ! तवैव सती कथं 
वरद ! वामन ! भिक्षणमर्हति ॥ ९८॥

भार्गवः किल भवन् भवान्पुरा 
कुन्दसुन्दरवनाचलेश्वर ! ।
अर्जुनस्य बलदर्पितस्य तु 
च्छेत्स्यति स्मरति बाहुकाननम् ॥ ९९॥

आज्ञा तवात्रभवती विदिता त्रयी सा
     धर्मं तदुक्तमखिलेन वनाद्रिनाथ! ।
अन्यूनमाचरितुमास्तिकशिक्षणार्थ-
     मत्रावतीर्य किल सुन्दर ! राघवोऽभूः ॥ १००॥

वनगिरिपतिरीशितेति देवैः 
त्रिपुरहरत्रिपुरघ्नचापभङ्गात् ।
व्यगणि परशुरामदर्शितस्य 
स्वकधनुषः परिमर्शदर्शनाञ्च ॥ १०१॥

अनवाप्तमत्र किल लिप्स्यते जनै-
र्न च लब्धमेतदिह भोक्तुमिष्यते ।
अनवाप्तमत्र किल नास्ति राम ! 
तज्जगती त्वया तृणमवैक्षि सुन्दर! ॥ १०२॥

शिखरिषु विपिनेष्वप्यापगास्वच्छतोया-
     स्वनुभवसि रसज्ञो दण्डकारण्यवासान् ।
तदिह तदनुभूतौ साभिलाषोऽद्य राम !
     श्रयसि वनगिरीन्द्रं सुन्दरीभूय भूयः ॥ १०३॥

उपवनतरुषण्डैर्मण्डिते गण्डशैल-
      प्रणयिभवदुदन्तोद्गायिगन्धर्वसिद्धे ।
वनगिरितटभूमिप्रस्तरे सुन्दर ! त्वं
      भजसि नु मृगयानानुद्रवश्रान्तिशान्तिम् ॥ १०४॥

कूलेऽब्धेः किल दक्षिणस्य निवसन्दूरोत्तराम्भोधिगान्
      दैत्यानेकपतत्रिणाऽच्छिन इतीयं किं वदन्ती श्रुता ।
तत्रैवेश्वरमम्भसां व्यजयथास्तस्माद्वनाद्रीश्वर !
      श्रीमन् ! सुन्दर ! सेतुबन्धनमुखाः क्रीडास्तवाडम्बरम् ॥ १०५॥

रघुकुलतिलक ! त्वं जातुचिद्यातुधान-
      च्छलमृगमृगयायां संप्रसक्तः पुराऽभूः ।
तदुपजनितखेदच्छेदनायाद्य गायन्-
      मधुकरतरुषण्डं रज्यसे किं वनाद्रिम् ॥ १०६॥

हे सुन्दरैकतरजन्मनि कृष्णभावे
      द्वे मातरौ च पितरौ च कुले अपि द्वे ।
एकक्षणादनुगृहीतवतः फलं ते
      नीला कुलेन सदृशी किल रुक्मिणी च ॥ १०७॥

त्वं हि सुन्दर ! यदा स्तनन्धयः
 पूतनास्तनमधास्तदा नु किम् ।
जीर्णमेव जठरे पयोविषं 
दुर्जरं वद तदात्मना सह ॥ १०८॥

आश्रितेषु सुलभो भवन् भवान् 
मर्त्यतां यदि जगाम सुन्दर! ।
अस्तु नाम तदुलूखले कियद् 
 दामबद्ध इति किं तदाऽरुदः ॥ १०९॥

सुन्दरोरुभुज ! नन्दनन्दनस्त्वं 
भवन् भ्रमरविभ्रमालकः ।
मन्दिरेषु नवनीततल्लजं 
वल्लवीधियमुत व्यचूचुरः ॥ ११०॥

कालियस्य फणतां शिरस्तु मे 
सत्कदम्बशिखरत्वमेव वा ।
वष्टि जुष्टवनशैल ! सुन्दर ! 
त्वत्पदाब्जयुगमर्पितं ययोः ॥ १११॥

गूहितस्वमहिमाऽपि सुन्दर !
 त्वं व्रजे किमिति शक्रमाक्रमीः ।
सप्तरात्रमदधाश्च किं गिरिं 
पृच्छतश्च सुहृदः किमक्रुधः ॥ ११२॥

हे नन्दनन्दन ! सुसुन्दर ! सुन्दराह्व
     वृन्दावने विहरतस्तव वल्लवीभिः ।
वेणुध्वनिश्रवणतस्तरुभिस्तदा व
     सग्रावभिर्जतुविलायमहो ! विलिल्ये ॥ ११३॥

गायङ्गायं वनगिरिपते ! त्वं हि वृन्दावनान्त-
     र्गोपीसङ्घैर्विहरसि यदा सुन्दर ! व्यूढबाहो ! ।
रासारम्भोत्सवबहुविधप्रेमसीमन्तिनीना
     चेतश्चेतस्तव च तु तदा कां दशामन्वभूताम् ॥

इङ्गितं निमिषितं च तावकं 
रम्यमद्भुतमतिप्रियङ्करम् ।
तेन कंसमुखकीटशासनं 
सुन्दराल्पकमपि प्रशस्यते ॥ ११५॥

वाराणसीदहनपौण्ड्रकभौमभङ्ग-
     कल्पद्रुमाहरणशङ्करजृम्भणाद्याः ।
अन्याश्च भारतबलक्रथनादयस्ते
     क्रीडास्सुसुन्दरभुज ! श्रवणामृतानि ॥ ११६॥

त्वं हि सुन्दर ! वनाद्रिनाथ ! 
हे वेङ्कटाह्वयनगेन्द्रमूर्धनि ।
देवसेवितपदाम्बुजद्वयः 
संश्रितेभ्य इह तिष्ठसे सदा ॥ ११७॥

हस्तिशैलनिलयो भवन् भवान् 
साम्प्रतं वरदराजसाह्वयः ।
इष्टमर्थमनुकम्पया ददद्
विश्वमेव दयते हि सुन्दर ! ॥ ११८॥

मध्येक्षीरपयोधि शेषशयने शेषे सदा सुन्दर !
     त्वं तद्वैभवमात्मनो भुवि भवद्भक्तेषु वात्सल्यतः ।
विश्राण्याखिलनेत्रपात्रमिह सन् सह्योद्भवायास्तटे
     श्रीरङ्गे निजधाम्नि शेषशयने शेषे वनाद्रीश्वर! ॥ ११९ ।

कल्कीभविष्यन् कलिकल्कदूषितान्-
     दुष्टानशेषान् भगवन् ! हनिष्यसि ।
स एष तस्यावसरस्सुसुन्दर !
     प्रशाधि लक्ष्मीश ! समक्षमेव नः ॥ १२०॥

ईदृशास्त्वदवतारसत्तमास्सर्व
 एव भवदाश्रितान् जनान् ।
त्रातुमेव न कदाचिदन्यथा 
तेन सुन्दर ! भवन्तमाश्रये ॥ १२१॥

त्वामामनन्ति कवयः करुणामृताब्धि
     त्वामेव संश्रितजनिघ्नमुपघ्नमेषाम् ।
येषां व्रजन्निह हि लोचनगोचरत्वं
     है सुन्दराह्व ! परिचस्करिषे वनाद्रिम् ॥ १२२॥

अशक्यं नो किञ्चित्तव न च न जानासि निखिलं
     दयालुः क्षन्ता चास्यहमपि न चागांसि तरितुम् ।
क्षमोऽतस्त्वच्छेषो ह्यगतिरिति च क्षुद्र इति च
     क्षमस्वैतावन्नोऽबलमिह हरे ! सुन्दरभुज ! ॥ १२३॥

लङ्कायुद्धहतान् हरीन् द्विजसुतं शम्बूकदोषान्मृतं
     सान्दीपन्यभिजं मृतं द्विजसुतान् बालांश्च वैकुण्ठगान् ।
गर्भं चार्जुनिसम्भवं व्युदधरस्स्वैनैव रूपेण यः
स्वाभीष्टं मम मद्गुरोश्च ददसे नो किं वनाद्रीश्वर! ॥ १२४॥

आयोध्यकान् सपशुकीटतृणांश्च जन्तून्
      किङ्कर्मणो नु बत ! कीदृशवेदनाढ्यान् ।
सायुज्यलभ्यविभवान्निजनित्यलोकान्
      सान्तानिकानगमयो वनशैलनाथ! ॥ १२५॥

हरितवारणभृत्यसमाह्वयं 
करिगिरौ वरदस्त्वमपूर्विकाम् ।
दृशमलम्भय एव हि सुन्दर ! 
स्फुटमदाश्च वरान् शतमीदृशान् ॥ १२६॥

इह च देव ! ददासि वरान् परान्
 वरद ! सुन्दर ! सुन्दरदोर्धर ! ।
वनगिरेरभितस्तटमावसन्
नखिललोचनगोचरवैभवः ॥ १२७॥

इदमिमे श‍ृणुमो मलयध्वजं 
नृपमिह स्वयमेव हि सुन्दर ॥
चरणसात्कृतवानिति तद्वयं 
वनगिरीश्वर ! जातमनोरथाः ॥ १२८॥

विज्ञापनां वनगिरीश्वर! सत्यरूपा
मङ्गीकुरुष्व करुणार्णव ! मामकीनाम् ।
श्रीरङ्गधामनि यथापुरमेकतोऽहं
 रामानुजार्यवशगः परिवर्तिषीय ॥ १२९॥

किञ्चेदञ्च विरिञ्चभावन ! वनाद्रीश ! प्रभो ! सुन्दर !
     प्रत्याख्यानपराङ्मुखो वरदतां पश्यन्नवश्यं श‍ृणु ।
श्रीरङ्गश्रियमन्वहं प्रगुणयंस्त्वद्भक्तभोग्यां कुरु
     प्रत्यक्षं सुनिरस्तमेव विदध- त्प्रत्यर्थिनां प्रार्थनम् ॥ १३०॥

कारुण्यामृतवारिधे ! वृषपते ! हे सत्यसङ्कल्पन !
     श्रीमन् ! सुन्दर ! योग्यताविरहिता- नुत्सार्य सद्वत्सल ! ।
क्षाम्यन् साधुजनैः कृतांस्तु निखिलानेवापचारान् क्षणात्
     तद्भोग्यामनिशं कुरुष्व भगवन् ! श्रीरङ्गधामश्रियम् ॥ १३१॥

इदं भूयोभूयः पुनरपि च भूयः पुनरपि
     स्फुटं विज्ञीप्सामीत्यगतिरबुधोऽनन्यशरणः ।
कृतागा दुष्टात्मा कलुषमतिरस्मीत्यनवधेः
     दयायाम्ते पात्रं वनगिरिपते ! सुन्दरभुज ! ॥ १३२॥

इति पञ्चस्तव्यां तृतीयः सुन्दरबाहुस्तवः सम्माप्तः ।

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top