सर्वदेशदशाकालेष्वव्याहतपराक्रमा।
रामानुजार्यदिव्याज्ञा वर्द्धतामभिवर्द्धताम् ॥१॥
श्रीरामानुजार्यदिव्याज्ञा प्रतिवासरमुज्वला।
दिगन्तव्यापिनी भूयात् सा हि लोकहितैषिणी ॥ २॥
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ।
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ॥३॥
नमः श्रीशैलनाथाय कुन्तीनगरजन्मने।
प्रसादलब्धपरमप्राप्यकैङ्कर्यशालिने ॥४॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ ५॥
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ॥
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ६॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ॥
अस्मद्गुरोर्भगवतोस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ७॥
माता पिता युवतयस्तनया विभूति:
सर्वं यदेव नियमेन मदन्वयानाम् ॥
आद्यस्य न: कुलपतेर्बकुलाभिरामं
श्रीमत्तदंघ्रियुगलं प्रणमामि मूर्ध्ना ॥८॥
भूतं सरश्च महदाह्वयभट्टनाथ
श्रीभक्तिसारकुलशेखरयोगिवाहान्
भक्तांघ्रिरेणुपरकालयतीन्द्रमिश्रान्
श्रीमत्परांकुशमुनिं प्रणतोऽस्मि नित्यम् ॥९॥
गुरुमुखमनधीत्य प्राह वेदानशेषान्,
नरपतिपरिक्लृप्तं शुल्कमादातुकामः ॥
स्वसुरममरवन्द्यं रङ्गनाथस्य साक्षात्,
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ १० ॥
अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून्
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णौ मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेशिणम्
सेनेशं श्रीयमिन्दिरासहचरं नारायणं संश्रये ॥ ११ ॥
श्रीजगन्नाथाचार्य स्वामीज्यूको स्तुतिपद्य
सदा शालग्रामे महति मुकुन्दे न्यस्तसुधियं,
गृहं सद्विद्यानां शुभगुणनिधिं लोकमहितम् ।
भजे श्रीशे सक्तं शठरिपुमुनीन्द्राहितहृदं,
जगन्नाथाचार्यं गुरुवरमुदारं द्रुतमतिः ।।१२।।
श्रीपराङ्कुशाचार्य जीयर स्वामीज्यूको स्तुतिपद्य
कौण्डिन्यान्वयरत्नभूतममलं रङ्गार्यसेवारतं,
वन्द्यं वैष्णववंशपद्मविपिने सूर्यं नवं पावनम् ।
विद्वच्छ्रीशुकदेवपादयुगलाम्भोजैकभोग्यं परं,
वन्दे तं परमं पराङ्कुशगुरुं वेदान्ततत्त्वप्रदम् ।।१३।।
स्वामीज्यूकै संन्यास लिएपछिको स्तुतिपद्य
श्रीमच्छुकार्यपदपङ्कजलब्धदीक्षां,
गोपालदेशिकपदाम्बुजदत्तशिक्षम् ।
श्रीभूतपट्टणयतीन्द्रमठाधिपाप्त-
ज्येष्ठाश्रमं शठरिपुं यतिराजमीडे ।।१४।।
श्रीशुकाचार्य स्वामीज्यूको स्तुतिपद्य
श्रीवत्सवंशवरवारिधिविश्वचन्द्रं,
श्रीजीयरार्यबलभद्रपदाब्जभृङ्गम् ।
श्रीवेदमूर्तिमुरलीधरसूनुरत्नं,
श्रीमच्छुकं सुवरदं शरणं प्रपद्ये ।।१५।।
श्रीबलभद्र स्वामीज्यूको स्तुतिपद्य
श्रीमत्काश्यपसन्ततौ शशिधरं लीलाधरार्यात्मजं,
श्रीमच्छ्रीहयग्रीवदेशिकगुरोः पादाब्जसत्षट्पदम् ।
शान्त्याद्यस्य गुणोत्करस्य निलयं श्रीवैष्णवानन्ददं,
तं श्रीश्रीबलभद्रदेशिकमहं वन्दे कृपासागरम् ।।१६।।
श्रीहयग्रीव स्वामीज्यूको स्तुतिपद्य
श्रीकान्यकुब्जकुलवारिधिपूर्णचन्द्रं,
श्रीश्रीनिवासगुरुवर्यपदाब्जभृङ्गम् ।
श्रीरामनारभवनात्मजमात्मवन्तं,
श्रीमद्गुरुं हयगलं शरणं प्रपद्ये ।।१७।।
स्वामीज्यूकै संन्यास लिएपछिको स्तुतिपद्य
यस्मै श्रीयतिशेखरः स्वकृपया दण्डत्रयं दत्तवान्,
काषायाम्बरमाशु रङ्गनिलये श्रीवैष्णवैर्मण्डिते ।
श्रीरङ्गार्यतनूजपादशरणाद् मन्त्रं च यो लब्धवान्,
तं श्रीश्रीहयकण्ठदेशिकमहं वन्दे यतीनां वरम् ।।१८।।
वर्तमान गोवर्धन-पीठाधीश श्रीरङ्गाचार्य (बालक) स्वामीज्यूको स्तुतिपद्य
वाधूलाब्धिसरोजसौम्यविकसद्रङ्गार्यदौहित्रकं,
श्रीमत्कोविदश्रीनिवासतनयं सौशील्यभूषान्वितम् ।
श्रीमद्वेङ्कटयोगिराजचरणे न्यस्तात्मभारं मुदा,
श्रीरङ्गार्यगुरुं भजामि सततं कारुण्यवारांनिधिम् ।।१९।।
श्रीरङ्गाचार्य स्वामीज्यूको स्तुतिपद्य
श्रीमद्वाधूलवंशामृतजलविधुं रङ्गराजार्यसूरेः,
पौत्रं श्रीश्रीनिवासाह्वयगुरुतनयं तत्पदाम्भोजभृङ्गम् ।
श्रीमच्छ्रीशैलरामावरजयतिपतेः पादपाथोजसक्तं,
श्रीरङ्गार्यगुरूणां गुरुमहमनिशं शान्तचित्तं भजामि ।।२०।।
श्रीश्रीनिवासाचार्य स्वामीज्यूको स्तुतिपद्य
वाधूलवंशकलशाम्बुधिशीतभानुं,
श्रीरङ्गराजगुरुवर्यतनूजरत्नम् ।
तत्पाददिव्यसरसीरुहचञ्चरीकं,
श्रीश्रीनिवासगुरुवर्यमहं प्रपद्ये ।।२१।।
श्रीरङ्गदेशिक स्वामीज्यूको स्तुतिपद्य
वाधूलवंशकलशाम्बुधिपूर्णचन्द्रं,
श्रीश्रीनिवासगुरुवर्यपदाब्जभृङ्गम् ।
श्रीवासमूर्तितनयं विनयोज्ज्वलन्तं,
श्रीरङ्गदेशिकमहं शरणं प्रपद्ये ।।२२।।
विविध स्तुतिहरू
श्रीमते रम्यजामात्रे मुनीन्द्राय महात्मने ।
श्रीरङ्गवासिने भूयान्नित्यश्रीर्नित्यमङ्गलम् ।।
मङ्गलं श्रीभाष्यामृतदायिने, सौलभ्यपरिपूर्णाय महापूर्णाय मङ्गलम् ।।२३।।
जयति वाधूलकुलकमलदिनकर ! विभो !
आश्रितदुःखदमन ! श्रीरङ्गसूरे ! स्वामिन् !
विजयी भव विजयी भव विजयी भव !
अमर्यादः क्षुद्रश्चलमतिरसूयाप्रसवभूः,
कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथमहम् इतः दुःखजलधे-
रपारादुत्तीर्णस्तव परिचरेयं चरणयोः ।।२४।।
अज्ञानिना मया दोषानशेषान् विहितान् हरे ।
क्षमस्व त्वं क्षमस्व त्वं शेषशैलशिखामणे ।।२५।।