श्रीबालदेशिक-पदाब्ज-रसैक-भृङ्गम्,
श्रीरामदेशिक-कृपालसदात्म-बोधं,
गोविन्द-देशिकमहं शरणं प्रपद्ये ॥
रामानुजार्य-पदपङ्कज-दत्त-चित्तं,
श्रीवानशैल-मुनिवर्य-पदाब्ज-भृङ्गम् ।
गोविन्ददेशिक-कृपालसदात्मबोध-
माचार्यनिष्ठ गुरुदासरथिं भजामि ॥
श्रीवानाद्रिमुनीन्द्रपादकमल द्वन्दैकसेवारतम् ।
श्रीगोविन्दगुरोः प्रशिष्यमनघं धर्मपचारे रतम् ॥
श्रीमद्दाशरथेरवाप्त सुमहासंस्कार सत्पञ्चकम् ।।
वन्देऽहं सुगुणान्वितं गुरुवरं श्रीभक्तिसाराभिधम् ॥॥