श्रीवादिभीकरस्वामिप्रपत्तिः

Sri App

श्रीवादिभीकरस्वामिप्रपत्तिः

श्रीरम्यवरयोगीन्द्रश्रीपादाब्जमधुव्रतम् । 
श्रीवादिभयकृत्सूनुं श्रीनिवासगुरुं भजे ॥

श्रीरङ्गहस्तिगिरिवेङ्कटभूधरादि-
दिव्यस्थलेशविषयान् कृतवान्प्रपत्तिः । 
यो वादिभीकरगुरुः प्रथमानकीर्तिः 
तस्यैव दिव्यचरणौ शरणं प्रपद्ये ॥ १ ॥

श्रीमच्छ्ठारिमुखपूर्वगुरुप्रणीत-
सद्-द्राविडोक्तिविततीषु कृतान्तरङ्ग । 
वादीन्द्रभीकरगुरो महनीयशील
शोभायमानचरणौ शरणं प्रपद्ये ॥२॥

श्रीरम्ययोगिपदपद्ममरन्दपान-
संवृद्धबोध समलंकृतचञ्चरीक । 
वादीन्द्रभीतिकरसंक्षितपोषणैक-
जाग्रत्त्वदीयचरणौ शरणं प्रपद्ये ॥३॥

अद्वैतवादिपदवारणकुम्भडम्म-
संभेदने दृढपराक्रम पञ्चवक्त्र। 
वादीन्द्रभीकर गुरो मदनुग्रहाय 
प्राप्तौ त्वदीयचरणौ शरणं प्रपद्ये ॥४॥

रामानुजार्यवरभाष्यपुराणसूक्ति-
गम्भीरभावविशदीकरणप्रवीण ।
वादीन्द्रभीकरगुरो प्रथितप्रभाव 
भक्त्या त्वदीयचरणौ शरणं प्रपद्ये ॥५॥

का पूर्व इत्यभिहितं वचनं निशम्य 
काञ्चीपुरी न इति चोत्तरमुक्तवान् य
तस्यैव वादिभयकृद्-गुरुपुङ्गवस्य 
तादृक्प्रभावचरणौ शरणं प्रपद्ये ॥ ६

रामानुजार्यमुनियामुनराममिश्र-
पद्माक्षनाथमुनिसूरिपदाम्बुजेषु । 
भक्तिं दृढां रचयतः प्रतिवादिभीकृ-
दार्यस्य दिव्यचरणौ शरणं प्रपद्ये ॥ ७ ॥

पाषण्डषण्डवनदाहदवायमान 
वेदान्तदेशिककृपापरिलब्धबोध । 
वादीन्द्रभीकरगुरो मम वाञ्छितार्थ 
लाभायमानचरणौ शरणं प्रपद्ये ॥८॥

वेदान्ततर्ककवितादिविचित्रतन्त्र 
नानार्थतत्त्वपरिशीलनजागरूक । 
वादीन्द्रभीकरगुरो मम भागधेय 
विच्छेदकारिचरणौ शरणं प्रपद्ये ॥९॥

आषाढमासि गुरुपुष्यदिनेऽवतीर्ण 
सौशिल्यशान्तिकरुणादिगुणामृताब्धे 
वादीन्द्रभीकरगुरो मम भागधेय स्वामि-
स्त्वदीयचरणौ शरणं प्रपद्ये ॥१०॥

श्री श्रीनिवासहृदयाब्जविकासमित्र 
श्रीवत्सवंशवरभूषण सच्चरित्र । 
वादीन्द्रभीतिकरवर्य भवत्कृपायाः 
पात्रं कुरुष्व भगवन् शरणागतं माम् ॥ ११ ॥

 ॥ इति श्रीवादिभीकरस्वामिप्रपत्तिः ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top