श्रीयोगिराजस्वामिप्रपत्तिः

Sri App

श्रीयोगिराजस्वामिप्रपत्तिः

श्रीमल्ललाटवरसद्रचितोर्ध्वपुण्ड्र : 
शुभ्रोपवीतसुशिखो धृतशुप्रवासाः।
 यो वादिभीतिकृदनन्तगुरोः सुशिष्यः 
पद्माक्षयोगिचरणौ शरणं प्रपचे ।

यौ मुक्तिनाथभगवद्रमणप्रदेश- 
श्रीगण्डकीविपुलतीरसमाचरन्तौ । 
सम्पूर्णतः श्रुतिविदग्रजवंशचन्द्रौ 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥२॥

यो वा पयोव्रतमुदारतरं गृहीत्वा, 
चाष्टोत्तरप्रशतदिव्यसुदेशस्रष्टुः ।
 नारायणस्य वरमङ्गलकारिसूरि- 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥३॥

नारायणेन रमया प्रथितं प्रपत्ति- 
धर्मविवर्धितमुरीकृतविग्रहौ यौ । 
प्राच्यादिदेशहरिशेषमितीष्टबोधौ, 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥४॥

श्रीभाष्यकारवरवंशमहाप्रदीपौ 
लोकार्यसूक्तिवरवर्षणवारिबाहौ । 
श्रीमच्छळारिचरणाम्बुजभृंगराज- 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥ ५ ॥

अर्चासमर्चनपुरस्सरवेदमार्ग - 
विप्लावनव्रतिगणस्य शिरःसु वज्रौ । 
पाषण्डिदन्तिगणभेदनसिंहतुल्यौ 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥६॥

नेपालभारतभुटानविभिन्नदेशे, 
जातीयकर्मविरहेण विनष्टभूतान् । 
प्रायश्च तान् सदुपदिश्य सुदर्शयन्तौ 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥७॥

रामानुजार्यवरयोगिसुसंमतं यत् 
तत्रापि योगविभवेन सुयोजयन्तौ । 
संस्थाप्य मन्दिरविशिष्टसुलक्ष्मिनाथौ, 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥८॥

प्राच्यादिदिक्षु सततं स्वपदैः परीत्या-
पूर्वाय कृत्यकरणीयमिति प्रबुद्धौ । 
विश्रामभावमतिगम्य सदा चरन्तौ, 
पद्माक्षयोगिचरणै शरणं प्रपद्ये ॥९॥

श्रीकृष्णभावविशदीकरणप्रवीणौ, 
श्रीसूरिभावपरिपूर्णरसार्द्रनित्यौ । 
सद्देशिकार्यपरमार्थरसोपतुष्टयै, 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥१०॥

श्रीकौशिकादिमुनिवंशमणिप्रदीपौ, 
स्वाचार्यसन्ततिपयोनिधिपूर्णचन्द्रौ । 
संसारिदीनजगतः परितः कृपालु-
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥११॥

आबालतो विमलकान्तिविराजमानौ, 
श्रीवैदिकाद्यखिलबोधविशिष्टसूक्त्या । 
मायाधिमग्नकुजनान् सुजनीकृतौ तौ 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥१२॥

रामानुजार्यचरणान्वयभावयुक्तान् 
शिष्यान् विधाय विमलान् कृपया च युक्त्या। 
संयोजकौ च भगवच्चरणारविन्दे 
पद्माक्षयोगिचरणौ शरणं प्रपद्ये ॥ १३ ॥ 

॥ इति श्रीयोगिराजस्वामिप्रपत्तिः ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top