॥ देवराजाष्टकम् ॥

Sri App

॥ देवराजाष्टकम् ॥


श्रीमत्काञ्चीमुनिं वन्दे कमलापतिनन्दनम् ।
वरदाङ्घ्रि सदासङ्ग रसायन परायणम् ॥

देवराजदयापात्रं श्रीकाञ्चीपूर्णमुत्तमम् ।
रामानुजमुनेर्मान्यं वन्देऽहं सज्जनाश्रयम् ॥

नमस्ते हस्तिशैलेश श्रीमन्नम्बुजलोचनः ।
शरणं त्वां प्रपन्नोऽस्मि प्रणतार्तिहराच्युत ॥ १  ॥

समस्तप्राणिसन्त्राणप्रवीण करुणोल्बण ।
विलसन्तु कटाक्षस्ते मय्यस्मिञ्जगताम्पते ॥ २  ॥

निन्दिताचारकरणं निवृत्तं कृत्यकर्मणः ।
पापीयांस ममर्यादं पाहि मां वरदप्रभो ॥ ३ ॥

संसारमरुकान्तारे दुर्व्याधिव्याघ्रभीषणे ।
विषयक्षुद्रगुल्माढ्ये तृषापादपशालिनि ॥ ४  ॥

पुत्रदारगृहक्षेत्रमृगतृष्णाम्बुपुष्कले ।
कृत्याकृत्यविवेकान्धं परिभ्रान्तमितस्ततः ॥ ५  ॥

अजस्रं जाततृष्णार्तमवसन्नाङ्गमक्षमम् ।
क्षीणशक्तिबलारोग्यं केवलं क्लेशसम्श्रयम् ॥ ६ ॥

सन्तप्तं विविधैर्दुःखैर्दुर्वचै रेवमादिभिः ।
देवराज दयासिन्धो देवदेव जगत्पते ॥ ७  ॥

त्वदीक्षणसुधासिन्धुवीचिविक्षेपशीकरैः ।
कारुण्यमारुतानीतैः शीतलैरभिषिञ्च माम् ॥ ८ ॥

॥ इति श्रीकाञ्चीपूर्णविरचितम् देवराजाष्टकम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top