॥ श्रीगोदा चतुश्लोकीस्तुतिः ॥

Sri App

॥ श्री गोदा चतुश्लोकीस्तुतिः ॥



सर्वं सहे तुलसिमूलकृतावतारे
श्रीविष्णुचित्तपरितोषितबाल्यवृत्ते ।
श्रीरङ्गराजकरपद्मगृहीतपाणे
गोदे नमोऽस्तु सततं जगदम्ब तुभ्यम् ॥ १॥

नित्याभूषा निगमशिरसां निःसमोत्तुङ्गवार्ता
कान्तो यस्याः कचविलुलितैः कामुको माल्यरत्नैः ।
सूक्त्या यस्याः श्रुतिसुभगया सुप्रभाता धरित्री
सैषा देवी सकलजननी सिञ्चतां मामपाङ्गैः ॥ २॥

माता चेत्तुलसी पिता यदि तव श्रीविष्णुचित्तो महान्
भ्राता चेद्यतिशेखरः प्रियतमः श्रीरङ्गधामा यदि ।
ज्ञातारस्तनयास्त्वदुक्तिसरसस्तन्येन संवर्धिता
गोदे त्वं हि कथं त्वनन्यविभवा साधारणा श्रीरसि ॥ ३॥

कल्पादौ हरिणा स्वयं जनहितं कृष्णेन सर्वात्मना
प्रोक्तं स्वस्य च कीर्तनं प्रपदनं स्वस्मै प्रसूनार्पणम् ।
सर्वेषां प्रकटं विधातुमनिशं श्रीधन्विनव्ये पुरे
यां तां वैदिकविष्णुचित्ततनयां गोदामुदारां स्तुमः ॥ ४॥

आकूतस्य परिष्क्रियां निरुपमामासेचनं चक्षुषोः
आनन्दांशपरम्परामनुगुणामारामशैलेशितुः ।
तद्धीरत्वकिरीटकोटिघटितत्वोच्छिष्टकस्तूरिका
माल्यामोदसमेधितात्मविभवां गोदामुदारां स्तुमः ॥ ५॥

॥ इति श्रीवेदान्तदेशिकविरचिता श्रीस्तुतिः सम्पूर्णा ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top