आरतीको समय भन्ने गुरुपरम्परा तोताद्रिमठ जनकपुर
श्रीगुरुपरम्परापाठ
सर्वदेशदशाकालेष्वव्याहतपराक्रमा।
रामानुजार्यदिव्याज्ञा वर्द्धतामभिवर्द्धताम् ॥१॥
श्रीरामानुजार्यदिव्याज्ञा प्रतिवासरमुज्वला।
दिगन्तव्यापिनी भूयात् सा हि लोकहितैषिणी ॥ २॥
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ।
श्रीमन् श्रीरंग श्रियमनुपद्रवामनुदिनं संवर्द्धय ॥३॥
नमः श्रीशैलनाथाय कुन्तीनगरजन्मने।
प्रसादलब्धपरमप्राप्यकैङ्कर्यशालिने ॥४॥
श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ ५॥
लक्ष्मीनाथसमारम्भां नाथयामुनमध्यमाम् ॥
अस्मदाचार्यपर्यन्तां वन्दे गुरुपरम्पराम् ॥ ६॥
यो नित्यमच्युतपदाम्बुजयुग्मरुक्म
व्यामोहतस्तदितराणि तृणाय मेने ॥
अस्मद्गुरोर्भगवतोस्य दयैकसिन्धोः
रामानुजस्य चरणौ शरणं प्रपद्ये ॥ ७॥
माता पिता युवतयस्तनया विभूति:
सर्वं यदेव नियमेन मदन्वयानाम् ॥
आद्यस्य न: कुलपतेर्बकुलाभिरामं
श्रीमत्तदंघ्रियुगलं प्रणमामि मूर्ध्ना ॥८॥
भूतं सरश्च महदाह्वयभट्टनाथ
श्रीभक्तिसारकुलशेखरयोगिवाहान्
भक्तांघ्रिरेणुपरकालयतीन्द्रमिश्रान्
श्रीमत्परांकुशमुनिं प्रणतोऽस्मि नित्यम् ॥९॥
गुरुमुखमनधीत्य प्राह वेदानशेषान्,
नरपतिपरिक्लृप्तं शुल्कमादातुकामः ॥
स्वसुरममरवन्द्यं रङ्गनाथस्य साक्षात्,
द्विजकुलतिलकं तं विष्णुचित्तं नमामि ॥ १० ॥
अस्मद्देशिकमस्मदीयपरमाचार्यानशेषान् गुरून्
श्रीमल्लक्ष्मणयोगिपुङ्गवमहापूर्णौ मुनिं यामुनम् ।
रामं पद्मविलोचनं मुनिवरं नाथं शठद्वेशिणम्
सेनेशं श्रीयमिन्दिरासहचरं नारायणं संश्रये ॥ ११ ॥
वानाद्रियोगिपदपङ्कज भक्तितत्वम्,
ज्ञानादि सद्गुण गणामृत वारिराशिम् ।
श्रुत्यन्तयुग्म सुखबोधन संप्रवीणम्,
रामानुजं यतिवरं प्रणमामि नित्यम् ॥
श्रीमद्यतीन्द्रवरयोगि पदाब्ज युग्म,
प्रेमाब्धिवानगिरियोगिदयैक पात्रम् ।
वेदान्त युग्म विशदीकरण प्रवीणम्,
रामानुजं मुनिवरं सततं नमामि ॥
श्रीवानाद्रि यतीन्द्र पाद जलज द्वन्दानुरागोज्वलम्,
श्रीरङ्गेश्वरपाद पद्म विलसत्सेवा निवद्धादरम् ।
आम्नायद्वयशेखरार्थ विशदीकार प्रवीणं सदा,
श्रीरामानुज योगिराजमतुलं सेवे दयाम्भोनिधिम् ॥
श्रीमच्छठारि कलिजिद्यतिराज सौम्य-
जामातृवानगिरियोगिपदाब्ज भक्तम् ।
श्रुत्यन्तयुग्म सुखबोधन संप्रवीणम्,
रामानुजं मुनिवरं गुरुमाश्रयामः ॥
श्रीभाष्यकार वरयोगि पदारविन्द-
प्रेमाम्बुराशि गगनाद्रि मुनीन्द्र भक्तम् ।
वेदान्तयुग्मसुखबोधन संप्रवीणम्,
रामानुजं यतिवरं गुरूमाश्रयामः ॥
श्रीमच्छठारि यतिराज पदाब्ज भृङ्गम्,
सौम्योपयन्तृ गगनाद्रि मुनीन्द्र भक्तम् ॥
त्रैय्यन्तयुग्म विशदीकरण प्रवीणम् ।
श्रीभट्टनाथ मुनिवर्यमहं भजामि ॥
श्रीमद्यतीन्द्रवरयोगि पदाब्जभृङ्गम्
श्रीवानशैलमुनिवर्य दयैकपात्रम् ॥
विख्यातवेदशिखरो भयतत्वबोधम् ।
रामानुजं कलिजितं मुनिमाश्रयामः ॥
श्रीमच्छठारियतिराजकृपावलम्ब
सौम्योपयन्तृगगनाद्रिमुनीन्द्रभक्तम् ।
वेदान्तयुग्मविशदीकरणप्रवीणं
रामानुजं यतिवरं गुरुमाश्रयामः ॥
श्रीवैष्णवान्वय पयोनिधि पूर्ण शोभम्, ।
वानाद्रियोगिपद पङ्कज भृङ्गराजम् ।
श्रीरामदेशिक वरेण्य कृपाकटाक्षम्,
श्रीवालदेशिकमहं शरणं प्रपद्ये ॥
श्रीकश्यपान्वय पयोनिधि पूर्ण चन्द्रम्,
श्रीवानशैलयमिनां करूणैक पात्रम् ।
श्रीवालदेशिक कटाक्ष विवृद्ध बोधम्,
श्रीरामदेशिकमहं शरणं प्रपद्ये ॥
वानाद्रियोगि पदपङ्कज भृङ्गराजम्,
श्रीवालदेशिक पदाब्ज रसैकभृङ्गम् ।
श्रीरामदेशिक कृपालसदात्म बोधम्,
गोविन्द देशिकमहं शरणं प्रपद्ये ॥
रामानुजार्य पदपङ्कज दत्त चित्तम्,
श्रीवानशैल मुनिवर्य पदाब्ज भृङ्गम् ।
गोविन्द देशिक कृपालसदात्मबोधम्
आचार्यनिष्ठ गुरु दाशरथिं भजामि ॥
श्रीवानाद्रिमुनीन्द्रपादकमल द्वन्दैकसेवारतम् ।
श्रीगोविन्दगुरोः प्रशिष्यमनघं धर्मपचारे रतम् ॥
श्रीमद्दाशरथेरवाप्त सुमहासंस्कार सत्पञ्चकम् ।
वन्देऽहं सुगुणान्वितं गुरुवरं श्रीभक्तिसाराभिधम् ॥
श्रीमतेरम्यजामातृ मुनीन्द्राय महात्मने ।
श्रीरङ्गवासिनी भूयात् नित्यश्रीर्नित्य मङ्गलम् ॥
मङ्गलं यतिराजाय श्रीभाष्यामृतदायिने ।
शौलभ्य परिपूर्णाय महापूर्णाय मङ्गलम् ॥
जय यतिराज फणिराज अवतारमणे ! प्रवलपाषण्डतमोहरणभानो !
विजयी भव, विजयी भव, विजयी भव ।