॥ श्रीलक्ष्मीनृसिंहसहस्रनामस्तोत्रम् ॥
॥ पूर्वपीठिका ॥
मार्कण्डेय उवाच ।
एवं युद्धमभूद्घोरं रौद्रं दैत्यबलैः सह ।
नृसिंहस्याङ्गसम्भूतैर्नारसिंहैरनेकशः ॥ १ ॥
दैत्यकोटिर्हतास्तत्र केचिद्भीताः पलायिताः ।
तं दृष्ट्वातीव सङ्क्रुद्धो हिरण्यकशिपुः स्वयम् ॥ २ ॥
भूतपूर्वैरमृत्युर्मे इति ब्रह्मवरोद्धतः ।
ववर्ष शरवर्षेण नारसिंहो भृशं बली ॥ ३ ॥
द्वन्द्वयुद्धमभूदुग्रं दिव्यवर्षसहस्रकम् ।
दैत्येन्द्रे साहसं दृष्ट्वा देवाश्चेन्द्रपुरोगमाः ॥ ४ ॥
श्रेयः कस्य भवेदत्र इति चिन्तापरा भवन् ।
तदा क्रुद्धो नृसिंहस्तु दैत्येन्द्रप्रहितान्यपि ॥ ५ ॥
विष्णुचक्रं महाचक्रं कालचक्रं तु वैष्णवम् ।
रौद्रं पाशुपतं ब्राह्मं कौबेरं कुलिशासनम् ॥ ६ ॥
आग्नेयं वारुणं सौम्यं मोहनं सौरपार्वतम् ।
भार्गवादि बहून्यस्त्राण्यभक्षयत कोपनः ॥ ७ ॥
सन्ध्याकाले सभाद्वारे स्वाङ्के निक्षिप्य भैरवः ।
ततः खड्गधरं दैत्यं जग्राह नरकेसरी ॥ ८ ॥
हिरण्यकशिपोर्वक्षो विदार्यातीव रोषितः ।
उद्धृत्य चान्त्रमालानि नखैर्वज्रसमप्रभैः ॥ ९ ॥
मेने कृतार्थमात्मानं सर्वतः पर्यवैक्षत ।
हर्षिता देवताः सर्वाः पुष्पवृष्टिमवाकिरन् ॥ १० ॥
देवदुन्दुभयो नेदुर्विमलाश्च दिशोऽभवन् ।
नरसिंहमतीवोग्रं विकीर्णवदनं भृशम् ॥ ११ ॥
लेलिहानं च गर्जन्तं कालानलसमप्रभम् ।
अतिरौद्रं महाकायं महादंष्ट्रं महारुतम् ॥ १२ ॥
महासिंहं महारूपं दृष्ट्वा सङ्क्षुभितं जगत् ।
सर्वदेवगणैः सार्थं तत्रागत्य पितामहः ॥ १३ ॥
आगन्तुकैर्भूतपूर्वैर्वर्तमानैरनुत्तमैः ।
गुणैर्नामसहस्रेण तुष्टाव श्रुतिसम्मतैः ॥ १४ ॥
ओं नमः श्रीमद्दिव्यलक्ष्मीनृसिंह सहस्रनामस्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः, श्रीलक्ष्मीनृसिंहो देवता, अनुष्टुप्छन्दः, श्रीनृसिंहः परमात्मा बीजं, लक्ष्मीर्माया शक्तिः, जीवो बीजं, बुद्धिः शक्तिः, उदानवायुः बीजं, सरस्वती शक्तिः, व्यञ्जनानि बीजानि, स्वराः शक्तयः, ओं क्ष्रौं ह्रीं इति बीजानि, ओं श्रीं
अं आं इति शक्तयः, विकीर्णनखदंष्ट्रायुधायेति कीलकं, अकारादिति बोधकं, श्रीलक्ष्मीनृसिंह प्रसादसिद्ध्यर्थे श्रीलक्ष्मीनृसिंह सहस्रनामस्तोत्र मन्त्रजपे विनियोगः ।
न्यासः –
ओं श्रीलक्ष्मीनृसिंहाय नमः – अङ्गुष्ठाभ्यां नमः ।
ओं वज्रनखाय नमः – तर्जनीभ्यां नमः ।
ओं महारुद्राय नमः – मध्यमाभ्यां नमः ।
ओं सर्वतोमुखाय नमः – अनामिकाभ्यां नमः ।
ओं विकटास्याय नमः – कनिष्ठिकाभ्यां नमः ।
ओं वीराय नमः – करतलकरपृष्ठाभ्यां नमः ।
एवं हृदयादिन्यासः ।
दिग्बन्धः –
ओं ऐन्द्रीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं आग्नेयीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं याम्यां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं नैरृतिं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं वारुणीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं वायवीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं कौबेरीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं ईशानीं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं ऊर्ध्वां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं अधस्ताद्दिशं दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
ओं अन्तरिक्षां दिशं सुदर्शनेन बध्नामि नमश्चक्राय स्वाहा ।
अथ ध्यानम् ।
सत्यज्ञानसुखस्वरूपममलं क्षीराब्धिमध्ये स्थितं
योगारूढमतिप्रसन्नवदनं भूषासहस्रोज्वलम् ।
त्र्यक्षं चक्रपिनाकसाभयकरान् बिभ्राणमर्कच्छविं
छत्रीभूतफणीन्द्रमिन्दुधवलं लक्ष्मीनृसिंहं भजे ॥ १ ॥
उपास्महे नृसिंहाख्यं ब्रह्म वेदान्तगोचरम् ।
भूयोलालितसंसारच्छेदहेतुं जगद्गुरुम् ॥ २ ॥
अथ स्तोत्रम्
ब्रह्मोवाच ।
ओं ह्रीं श्रीं ऐं क्ष्रौम् ॥
ओं नमो नारसिंहाय वज्रदंष्ट्राय वज्रिणे ।
वज्रदेहाय वज्राय नमो वज्रनखाय च ॥ १ ॥
वासुदेवाय वन्द्याय वरदाय वरात्मने ।
वरदाभयहस्ताय वराय वररूपिणे ॥ २ ॥
वरेण्याय वरिष्ठाय श्रीवराय नमो नमः ।
प्रह्लादवरदायैव प्रत्यक्षवरदाय च ॥ ३ ॥
परात्परपरेशाय पवित्राय पिनाकिने ।
पावनाय प्रसन्नाय पाशिने पापहारिणे ॥ ४ ॥
पुरुष्टुताय पुण्याय पुरुहूताय ते नमः ।
तत्पुरुषाय तथ्याय पुराणपुरुषाय च ॥ ५ ॥
पुरोधसे पूर्वजाय पुष्कराक्षाय ते नमः ।
पुष्पहासाय हासाय महाहासाय शार्ङ्गिणे ॥ ६ ॥
सिंहाय सिंहराजाय जगद्वश्याय ते नमः ।
अट्टहासाय रोषाय जलवासाय ते नमः ॥ ७ ॥
भूतावासाय भासाय श्रीनिवासाय खड्गिने ।
खड्गजिह्वाय सिंहाय खड्गवासाय ते नमः ॥ ८ ॥
नमो मूलाधिवासाय धर्मवासाय धन्विने ।
धनञ्जयाय धन्याय नमो मृत्युञ्जयाय च ॥ ९ ॥
शुभञ्जयाय सूत्राय नमः शत्रुञ्जयाय च ।
निरञ्जनाय नीराय निर्गुणाय गुणाय च ॥ १० ॥
निष्प्रपञ्चाय निर्वाणप्रदाय निबिडाय च ।
निरालम्बाय नीलाय निष्कलाय कलाय च ॥ ११ ॥
निमेषाय निबन्धाय निमेषगमनाय च ।
निर्द्वन्द्वाय निराशाय निश्चयाय निराय च ॥ १२ ॥
निर्मलाय निबन्धाय निर्मोहाय निराकृते ।
नमो नित्याय सत्याय सत्कर्मनिरताय च ॥ १३ ॥
सत्यध्वजाय मुञ्जाय मुञ्जकेशाय केशिने ।
हरीशाय च शेषाय गुडाकेशाय वै नमः ॥ १४ ॥
सुकेशायोर्ध्वकेशाय केशिसंहारकाय च ।
जलेशाय स्थलेशाय पद्मेशायोग्ररूपिणे ॥ १५ ॥
कुशेशयाय कूलाय केशवाय नमो नमः ।
सूक्तिकर्णाय सूक्ताय रक्तजिह्वाय रागिणे ॥ १६ ॥
दीप्तरूपाय दीप्ताय प्रदीप्ताय प्रलोभिने ।
प्रच्छिन्नाय प्रबोधाय प्रभवे विभवे नमः ॥ १७ ॥
प्रभञ्जनाय पान्थाय प्रमायाप्रमिताय च ।
प्रकाशाय प्रतापाय प्रज्वलायोज्ज्वलाय च ॥ १८ ॥
ज्वालामालास्वरूपाय ज्वलज्जिह्वाय ज्वालिने ।
महोज्ज्वलाय कालाय कालमूर्तिधराय च ॥ १९ ॥
कालान्तकाय कल्पाय कलनाय कृते नमः ।
कालचक्राय शक्राय वषट्चक्राय चक्रिणे ॥ २० ॥
अक्रूराय कृतान्ताय विक्रमाय क्रमाय च ।
कृत्तिने कृत्तिवासाय कृतघ्नाय कृतात्मने ॥ २१ ॥
सङ्क्रमाय च क्रुद्धाय क्रान्तलोकत्रयाय च ।
अरूपाय स्वरूपाय हरये परमात्मने ॥ २२ ॥
अजयायादिदेवाय अक्षयाय क्षयाय च ।
अघोराय सुघोराय घोरघोरतराय च ॥ २३ ॥
नमोऽस्त्वघोरवीर्याय लसद्घोराय ते नमः ।
घोराध्यक्षाय दक्षाय दक्षिणाऽऽर्याय शम्भवे ॥ २४ ॥
अमोघाय गुणौघाय अनघायाऽघहारिणे ।
मेघनादाय नादाय तुभ्यं मेघात्मने नमः ॥ २५ ॥
मेघवाहनरूपाय मेघश्यामाय मालिने ।
व्यालयज्ञोपवीताय व्याघ्रदेहाय वै नमः ॥ २६ ॥
व्याघ्रपादाय च व्याघ्रकर्मिणे व्यापकाय च ।
विकटास्याय वीराय विष्टरश्रवसे नमः ॥ २७ ॥
विकीर्णनखदंष्ट्राय नखदंष्ट्रायुधाय च ।
विष्वक्सेनाय सेनाय विह्वलाय बलाय च ॥ २८ ॥
विरूपाक्षाय वीराय विशेषाक्षाय साक्षिणे ।
वीतशोकाय विस्तीर्णवदनाय नमो नमः ॥ २९ ॥
विधानाय विधेयाय विजयाय जयाय च ।
विबुधाय विभावाय नमो विश्वम्भराय च ॥ ३० ॥
वीतरागाय विप्राय विटङ्कनयनाय च ।
विपुलाय विनीताय विश्वयोने नमो नमः ॥ ३१ ॥
विडम्बनाय वित्ताय विश्रुताय वियोनये । [चिदम्बराय]
विह्वलाय विवादाय नमो व्याहृतये नमः ॥ ३२ ॥
विलासाय विकल्पाय महाकल्पाय ते नमः ।
बहुकल्पाय कल्पाय कल्पातीताय शिल्पिने ॥ ३३ ॥
कल्पनाय स्वरूपाय फणितल्पाय वै नमः ।
तटित्प्रभाय तार्क्ष्याय तरुणाय तरस्विने ॥ ३४ ॥
तपनाय तरक्षाय तापत्रयहराय च ।
तारकाय तमोघ्नाय तत्त्वाय च तपस्विने ॥ ३५ ॥
तक्षकाय तनुत्राय तटिने तरलाय च ।
शतरूपाय शान्ताय शतधाराय ते नमः ॥ ३६ ॥
शतपत्रायताक्षाय स्थितये शतमूर्तये ।
शतक्रतुस्वरूपाय शाश्वताय शतात्मने ॥ ३७ ॥
नमः सहस्रशिरसे सहस्रवदनाय च ।
सहस्राक्षाय देवाय दिशश्रोत्राय ते नमः ॥ ३८ ॥
नमः सहस्रजिह्वाय महाजिह्वाय ते नमः ।
सहस्रनामधेयाय सहस्राक्षिधराय च ॥ ३९ ॥
सहस्रबाहवे तुभ्यं सहस्रचरणाय च ।
सहस्रार्कप्रकाशाय सहस्रायुधधारिणे ॥ ४० ॥
नमः स्थूलाय सूक्ष्माय सुसूक्ष्माय नमो नमः ।
सुक्षुण्णाय सुभिक्षाय सुराध्यक्षाय शौरिणे ॥ ४१ ॥
धर्माध्यक्षाय धर्माय लोकाध्यक्षाय वै नमः ।
प्रजाध्यक्षाय शिक्षाय विपक्षक्षयमूर्तये ॥ ४२ ॥
कालाध्यक्षाय तीक्ष्णाय मूलाध्यक्षाय ते नमः ।
अधोक्षजाय मित्राय सुमित्रवरुणाय च ॥ ४३ ॥
शत्रुघ्नाय अविघ्नाय विघ्नकोटिहराय च ।
रक्षोघ्नाय तमोघ्नाय भूतघ्नाय नमो नमः ॥ ४४ ॥
भूतपालाय भूताय भूतावासाय भूतिने ।
भूतवेतालघाताय भूताधिपतये नमः ॥ ४५ ॥
भूतग्रहविनाशाय भूतसम्यमते नमः ।
महाभूताय भृगवे सर्वभूतात्मने नमः ॥ ४६ ॥
सर्वारिष्टविनाशाय सर्वसम्पत्कराय च ।
सर्वाधाराय शर्वाय सर्वार्तिहरये नमः ॥ ४७ ॥
सर्वदुःखप्रशान्ताय सर्वसौभाग्यदायिने ।
सर्वज्ञायाप्यनन्ताय सर्वशक्तिधराय च ॥ ४८ ॥
सर्वैश्वर्यप्रदात्रे च सर्वकार्यविधायिने ।
सर्वज्वरविनाशाय सर्वरोगापहारिणे ॥ ४९ ॥
सर्वाभिचारहन्त्रे च सर्वैश्वर्यविधायिने ।
पिङ्गाक्षायैकशृङ्गाय द्विशृङ्गाय मरीचये ॥ ५० ॥
बहुशृङ्गाय लिङ्गाय महाशृङ्गाय ते नमः ।
माङ्गल्याय मनोज्ञाय मन्तव्याय महात्मने ॥ ५१ ॥
महादेवाय देवाय मातुलिङ्गधराय च ।
महामायाप्रसूताय प्रस्तुताय च मायिने ॥ ५२ ॥
अनन्तानन्तरूपाय मायिने जलशायिने ।
महोदराय मन्दाय मददाय मदाय च ॥ ५३ ॥
मधुकैटभहन्त्रे च माधवाय मुरारये ।
महावीर्याय धैर्याय चित्रवीर्याय ते नमः ॥ ५४ ॥
चित्रकूर्माय चित्राय नमस्ते चित्रभानवे ।
मायातीताय मायाय महावीराय ते नमः ॥ ५५ ॥
महातेजाय बीजाय तेजोधाम्ने च बीजिने ।
तेजोमयनृसिंहाय नमस्ते चित्रभानवे ॥ ५६ ॥
महादंष्ट्राय तुष्टाय नमः पुष्टिकराय च ।
शिपिविष्टाय हृष्टाय पुष्टाय परमेष्ठिने ॥ ५७ ॥
विशिष्टाय च शिष्टाय गरिष्ठायेष्टदायिने ।
नमो ज्येष्ठाय श्रेष्ठाय तुष्टायामिततेजसे ॥ ५८ ॥
अष्टाङ्गन्यस्तरूपाय सर्वदुष्टान्तकाय च ।
वैकुण्ठाय विकुण्ठाय केशिकण्ठाय ते नमः ॥ ५९ ॥
कण्ठीरवाय लुण्ठाय निश्शठाय हठाय च ।
सत्वोद्रिक्ताय रुद्राय ऋग्यजुस्सामगाय च ॥ ६० ॥
ऋतुध्वजाय वज्राय मन्त्रराजाय मन्त्रिणे ।
त्रिनेत्राय त्रिवर्गाय त्रिधाम्ने च त्रिशूलिने ॥ ६१ ॥
त्रिकालज्ञानरूपाय त्रिदेहाय त्रिधात्मने ।
नमस्त्रिमूर्तिविद्याय त्रितत्त्वज्ञानिने नमः ॥ ६२ ॥
अक्षोभ्यायानिरुद्धाय अप्रमेयाय भानवे ।
अमृताय अनन्ताय अमितायामितौजसे ॥ ६३ ॥
अपमृत्युविनाशाय अपस्मारविघातिने ।
अन्नदायान्नरूपाय अन्नायान्नभुजे नमः ॥ ६४ ॥
नाद्याय निरवद्याय विद्यायाद्भुतकर्मणे ।
सद्योजाताय सङ्घाय वैद्युताय नमो नमः ॥ ६५ ॥
अध्वातीताय सत्त्वाय वागतीताय वाग्मिने ।
वागीश्वराय गोपाय गोहिताय गवां पते ॥ ६६ ॥
गन्धर्वाय गभीराय गर्जितायोर्जिताय च ।
पर्जन्याय प्रबुद्धाय प्रधानपुरुषाय च ॥ ६७ ॥
पद्माभाय सुनाभाय पद्मनाभाय मानिने ।
पद्मनेत्राय पद्माय पद्मायाः पतये नमः ॥ ६८ ॥