लक्षवर्त्तिकादीपप्रदानम्
प्रायः सायंकाले लक्षवर्त्तिकादीप प्रदानं कुर्वन्ति ।
तद्यथा कर्ता शुचिराचान्तः दीपकलशविष्वक्सेनं च संस्थाप्य कर्मपात्रं विधाय लक्षवर्तिकादीपदानार्थे प्रतिज्ञासंकल्पं कुर्यात् ।
सङ्कल्पः
हरिः ॐ तत्सत् ३ ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य श्रीभूनीलानायकस्य सौशील्यादि सकलकल्याण-गुणगणसमलंकृतस्य श्रीमन्नारायणस्य नाभिकमलोद्भवस्य भगवदाज्ञया सकलजगत्सृष्टिं कुर्वतः अखिललोकपितामहस्य ब्रह्मणो द्वितीये परार्द्धे एकपञ्चाशत्तमे वर्षे प्रथममासे प्रथमपक्षे प्रथमदिवसे दिनस्य द्वितीये यामे तृतीये मुहूर्ते अष्टमे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलियुगे कलिप्रथमचरणे श्रीमद्रामानुजमुनिप्रादुर्भावात् (श्रीमन्नृपतिवीरविक्रमार्कराज्याद्वा) वर्तमाने अमुकसंवत्सरे अमुकायने अमुक ऋतौ अमुकमासे अमुकपक्षे अमुकतिथौ अमुकनक्षत्रे अमुकयोगे अमुक करणे अमुकराशिस्थिते श्रीसूर्ये अमुकराशिस्थिते चन्द्रे अमुकराशिस्थिते देवगुरौ शेषेषु ग्रहेषु यथायथा स्थानस्थितेषु सत्सु एवं गुणगण विशेषेण विशिष्टायां शुभपुण्यतिथौ अमुकवेदान्तर्गतामुकशाखाध्यायी अमुकगोत्रोत्पन्न अमुकप्रवरान्वितः अमुकशर्माहं (वा अमुकनामदासोऽहं ) मम समस्तजन्मबाल्ययौवनवार्द्धक्य अवस्थोपार्जित अकृत्यकरण कृत्याकरण भगवदपचारभागवतापचा-रसह्यापचार सकलदुरितनिवृत्तिपूर्वक श्रीलक्ष्मीनारायण भगवतो लक्षवर्त्तिदीपदानविधिः नित्यकैङ्कर्यप्राप्त्यर्थम् भगवद्भागवदाचार्याज्ञया भगवद् मुखोल्लासार्थं ( अमुक अमुक फलप्राप्त्यर्थम् च ) लक्षवर्तिकादीपदानं करिष्ये तदङ्गत्वेन दीपकलशविष्वक्सेनपूजनपूर्वकं भगवतः समाराधनां च करिष्ये ।
इति प्रकृतकार्यं विज्ञाप्य पञ्चकलशान् संस्थाप्य तेषु मध्यकलशे श्रीभूनीला सहितं परवासुदेवं संस्थाप्य पूर्वदक्षिणपश्चिमोत्तरकलशेषु लक्ष्मीदेवीरत्युषा सहितान् वासुदेवसंकर्षणप्रद्युम्नानिरुद्धान् स्थापयित्वा पुरुषसूक्तोक्तविधिना आसनार्घ्यपाद्याचमनीयस्नानवस्त्रयज्ञोपवीतचन्दन पुष्पार्चनादीन् विधाय अङ्गपूजां कुर्यात्।
इति प्रकृतकार्यं विज्ञाप्य पञ्चकलशान् संस्थाप्य तेषु मध्यकलशे श्रीभूनीला सहितं परवासुदेवं संस्थाप्य पूर्वदक्षिणपश्चिमोत्तरकलशेषु लक्ष्मीदेवीरत्युषा सहितान् वासुदेवसंकर्षणप्रद्युम्नानिरुद्धान् स्थापयित्वा पुरुषसूक्तोक्तविधिना आसनार्घ्यपाद्याचमनीयस्नानवस्त्रयज्ञोपवीतचन्दन पुष्पार्चनादीन् विधाय अङ्गपूजां कुर्यात्।
अङ्गपूजा
ॐ केशवाय शिरः पूजयामि।
ॐ नारायणाय नमः ललाटं पूजयामि।
ॐ माधवाय नेत्रे पूजयामि।
ॐ गोविन्दाय नमः कर्णौ पूजयामि।
ॐ विष्णवे नमः नासिकां पूजयामि।
ॐ त्रिविक्रमाय नमः मुखं पूजयामि।
ॐ मधुसूदनाय नमः कण्ठं पूजयामि।
ॐ वामनाय नमः स्कन्धं पूजयामि।
ॐ श्रीधराय नमः बाहू पूजयामि।
ॐ हृषीकेशाय नमः स्तनौ पूजयामि।
ॐ पद्मनाभाय नमः नाभिं पूजयामि।
ॐ दामोदराय नमः कटीं पूजयामि।
ॐ वासुदेवाय नमः गुदं पूजयामि।
ॐ संकर्षणाय नमः ऊरू पूजयामि।
ॐ प्रद्युम्नाय नमः जानुनीं पूजयामि।
ॐ अनिरुद्धाय नमः गुल्फौ पूजयामि।
ॐ पुरुषोत्तमाय नमः पादौ पूजयामि
ॐ अधोक्षजाय नमः सर्वाङ्गं पूजयामि।
ॐ नारसिंहाय नमः पादौ पूजयामि।
ॐ अच्युताय नमः जङ्घे पूजयामि।
ॐ जनार्दनाय नमः ऊरू पूजयामि।
ॐ उपेन्द्राय मेढ्रं पूजयामि।
ॐ श्रीकृष्णाय नाभिं पूजयामि।
ॐ हरये कटीम् पूजयामि।
ॐ विश्वरूपाय नमः हृदयं पूजयामि।
ॐ नारायणाय नमः ललाटं पूजयामि।
ॐ माधवाय नेत्रे पूजयामि।
ॐ गोविन्दाय नमः कर्णौ पूजयामि।
ॐ विष्णवे नमः नासिकां पूजयामि।
ॐ त्रिविक्रमाय नमः मुखं पूजयामि।
ॐ मधुसूदनाय नमः कण्ठं पूजयामि।
ॐ वामनाय नमः स्कन्धं पूजयामि।
ॐ श्रीधराय नमः बाहू पूजयामि।
ॐ हृषीकेशाय नमः स्तनौ पूजयामि।
ॐ पद्मनाभाय नमः नाभिं पूजयामि।
ॐ दामोदराय नमः कटीं पूजयामि।
ॐ वासुदेवाय नमः गुदं पूजयामि।
ॐ संकर्षणाय नमः ऊरू पूजयामि।
ॐ प्रद्युम्नाय नमः जानुनीं पूजयामि।
ॐ अनिरुद्धाय नमः गुल्फौ पूजयामि।
ॐ पुरुषोत्तमाय नमः पादौ पूजयामि
ॐ अधोक्षजाय नमः सर्वाङ्गं पूजयामि।
ॐ नारसिंहाय नमः पादौ पूजयामि।
ॐ अच्युताय नमः जङ्घे पूजयामि।
ॐ जनार्दनाय नमः ऊरू पूजयामि।
ॐ उपेन्द्राय मेढ्रं पूजयामि।
ॐ श्रीकृष्णाय नाभिं पूजयामि।
ॐ हरये कटीम् पूजयामि।
ॐ विश्वरूपाय नमः हृदयं पूजयामि।
ॐ चतुर्व्यहाय नमः बाहू पूजयामि।
ॐ स्वयंज्योतिषे नमः कण्ठं पूजयामि।
ॐ जलशायिने नमः मुखं पूजयामि।
ॐ परब्रह्मणे नमः शिरः पूजयामि।
ॐ श्रीभूनीलानायकाय नमः सर्वाङ्गं पूजयामि।
ततो धूप दीप नैवेद्यादिकं विधाय नीराजनार्थे सपाद लक्षवर्तिका विभूषित दीपपात्रं स्पृशन् संकल्पं कुर्यात् ।
ॐ स्वयंज्योतिषे नमः कण्ठं पूजयामि।
ॐ जलशायिने नमः मुखं पूजयामि।
ॐ परब्रह्मणे नमः शिरः पूजयामि।
ॐ श्रीभूनीलानायकाय नमः सर्वाङ्गं पूजयामि।
ततो धूप दीप नैवेद्यादिकं विधाय नीराजनार्थे सपाद लक्षवर्तिका विभूषित दीपपात्रं स्पृशन् संकल्पं कुर्यात् ।
सङ्कल्प
हरिः ॐ तत्सत् अद्येहेत्यादि देशकालादीन् संकीर्त्य अमुक गोत्रस्य / गोत्रायाः अमुक नाम्नः/नाम्न्याः भगवद् दासस्य / दास्याः मम समस्तजन्म बाल्ययौवन बार्द्धक्यावस्थोपार्जित कायिक वाचिक मानसिक सांसर्गिक अकृत्यकरण कृत्याकरण भगवदपचार भागवतापचार असह्यापचारादि अनेकविध पापनिवृत्तिपूर्वकं श्रीमन्नारायण प्रीतये घृताक्तान् (तिलतैलाक्तान्) वा सुवर्णवर्तिका सहितान् सपादलक्षसंख्याकान् प्रज्वलितान् दीपान्
परात्पराय परमेश्वराय सर्वान्तर्यामिणे जगदीश्वराय श्रीभूनीलासहिताय वल्लभाय भगवते नारायणाय समर्पयामि।
एवं प्रकारेण दीपान् भगवते नारायणाय समर्प्य कांस्यपात्रसहितं रौप्यपात्रस्थितं हेमवर्तिकादानं कुर्यात् ।
हेमवर्तिका दानमन्त्रः
रौप्यपात्रस्थितं दीपं हेमवर्तिविभूषितम् ।
कांस्यपात्रेणसहितं ददामि व्रतपूर्तये ॥
एवं प्रकारेण दीपान् भगवते नारायणाय समर्प्य कांस्यपात्रसहितं रौप्यपात्रस्थितं हेमवर्तिकादानं कुर्यात् ।
हेमवर्तिका दानमन्त्रः
रौप्यपात्रस्थितं दीपं हेमवर्तिविभूषितम् ।
कांस्यपात्रेणसहितं ददामि व्रतपूर्तये ॥
ततः पूर्णपात्र दानं भूयसी दक्षिणादानं च दत्वा प्रार्थयेत् ।
इदं व्रतं मया देव कृतं प्रीत्यै तव प्रभो ।
न्यूनं संपूर्णतां यातु प्रसादात् तव केशव ॥
गृहीतोऽस्मि व्रतं देव यद्यपूर्णोऽस्मि योऽस्म्यहम्
तन्मे भवतु संपूर्णम् त्वत्प्रसादात् जनार्दन ॥
यस्य स्मृत्या च नामोक्त्या जपहोमक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात् ।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि ॥
॥ इत्यादिना परमेश्वरं समर्प्य विसर्जनङ्कुर्यात् ॥
इति लक्षवर्तिका दीपदानविधिः समाप्ता
इति लक्षवर्तिका दीपदानविधिः समाप्ता