श्रीभाष्यकारस्वरुपम्

Sri App

श्रीभाष्यकारस्वरुपम्

मस्तकं श्रीशठारातिं नाथाख्यं मुखमण्डलं ।
नेत्रयुग्मं सरोजाक्षं कपोलं राघवं तथा ॥१॥

वक्षःस्थलं यामुनाख्यं कण्ठं श्रीपूर्णदेशिकम्।
बाहुद्वयं गोष्ठीपूर्णं शैलपूर्णं स्तनद्वयम् ॥२॥

कुक्षिं तु वररङ्गार्यं पृष्ठं मालाधरं तथा ।
कटिं काञ्चीमुनिं ज्ञेयं गोविन्दार्यं नितम्बकम् ।।३।।

भट्टवेदान्तिनौ जङ्घे ऊरुयुग्मं तु नम्बुलम् ।
कृष्णं जानुयुगं चैव लोकं श्रीपादपङ्कजम् ॥४॥

रेखां श्रीशैलनाथाख्यं पादुकां वरयोगिनम् ।
पुण्ड्रं सेनापतिं प्रोक्तं सूत्रं कूरपतिं तथा ॥५॥

भागिनेयं त्रिदण्डं च काषायं चान्ध्रपूर्णकम् ।
मालां च कुरुकेशार्यं छायां श्रीचापकिङ्गरम् ॥६॥

एवं रामानुजार्यस्यावयवानखिलान् गुरून् ।
महान्तं चावयविनं रामानुजमुनिं भजे ॥७॥

गुरुमूर्त्यात्मयोगीन्द्रं यो ध्यायेत्प्रत्यहं नरः ।
सर्वान्कामानवाप्नोति लभेच्चान्ते परं पदम् ॥८॥

॥इति॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top