वामनस्य विश्वरूपवर्णनम्

Sri App

 वामनविश्वरूपवर्णनम् 

वामन उवाच 

एतावता दैत्यपते कृतकृत्योऽस्मि मार्गताम् ।

अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ॥ ५०॥


एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः ।

वाचयामास तत्तस्मै वामनाय पदत्रयम् ॥ ५१॥


पाणौ तु पतिते तोये वामनो भूतभावनः ।

सर्वदेवमयं रूपं दर्शयामास तत्क्षणात् ॥ ५२॥


चन्द्रसूर्यौ च नयने द्यौः शिरश्चरणौ क्षितिः ।

पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ॥ ५३॥


विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।

यक्षा नखेषु सम्भूता रेखास्वप्सरसः स्थिताः ॥ ५४॥


दृष्टिर्धिष्णान्यशेषाणि केशाः सूर्यांशवः प्रभो ।

तारका रोमकूपाणि रोमाणि च महर्षयः ॥ ५५॥


बाहवो विदिशस्तस्य दिशः श्रोत्रं महात्मनः ।

अश्विनौ श्रवणौ तस्य नासा वायुर्महाबलः ॥ ५६॥


प्रसादश्चन्द्रमा देवो मनो धर्मः समाश्रितः ।

सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ॥ ५७॥


ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा ।

स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ॥ ५८॥


मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।

हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ॥ ५९॥


पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु ।

सर्वसूक्तानि दशना ज्योतींषि विमलप्रभाः ॥ ६०॥


वक्षःस्थले तथा रुद्रो धैर्ये चास्य महार्णवः

उदरे चास्य गन्धर्वा मरुतश्च महाबलाः ।

लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ॥ ६१॥


सर्वज्योतींषि यानीह तपश्च परमं महत् ।

तस्य देवातिदेवस्य तेजः प्रोद्भूतमुत्तमम् ॥ ६२॥


स्तनौ कुक्षौ च वेदाश्च जानू चास्य महामखाः ।

इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ॥ ६३॥


तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महाबलाः ।

उपसर्पन्ति दैतेयाः पतङ्गा इव पावकम् ॥ ६४॥


इति विष्णुधर्मेषु सप्तसप्ततितमोऽध्यायान्तर्गतं वामनस्य

विश्वरूपवर्णनं सम्पूर्णम् ।

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top