॥ श्रीकृष्ण अष्टोत्तरशतनामस्तोत्रम्॥

Sri App

॥ श्रीकृष्ण अष्टोत्तरशतनामस्तोत्रम्॥

अस्य श्रीकृष्णाष्टोत्तरशतनामस्तोत्रस्य श्रीशेष ऋषि ।
अनुष्टुप् छन्दः । श्रीकृष्णो देवता ।
श्रीकृष्णप्रीत्यर्थे श्रीकृष्णाष्टोतरशतनामजपे विनियोगः ॥

शेष उवाच
श्रीकृष्णः कमलानाथो वासुदेवः सनातनः ।
वासुदेवात्मजः पुण्यो लीलामानुषविग्रहः ॥ १ ॥

श्रीवत्सकौस्तुभधरो यशोदावत्सलो हरिः ।
चतुर्भुजात्तचक्रसिगदाशंखाद्युदायुधः ॥ २ ॥

देवकीनंदनः श्रीशो नंदगोपप्रियात्मजः ।
यमुनावेगसंहारी बलभद्रप्रियानुजः ॥ ३ ॥

पूतनाजीवितहरः शकटासुरभंजनः ।
नंदव्रजजनानंदी सच्चिदानंदविग्रहः ॥ ४ ॥

नवनीतनवाहारी मुचुकंदप्रसादकः ।
षोडशस्त्रीसहस्त्रेशस्त्रिभंगी मधुराकृतिः ॥ ५ ॥

शुकवागमृताब्धींदुर्गोविंदो गोविंदां पतिः ।
वत्सपालनसंचारी धेनुकासुरभंजनः ॥ ६ ॥

तृणीकृततृणावर्तो यमलार्जुनभंजनः ।
उत्तालतालभेत्ता च तमालश्यामलाकृतिः ॥ ७ ॥

गोपगोपीश्वरो योगी सूर्यकोटिसमप्रभः ।
इलापतिः परं ज्योतिर्यादवेंद्रो यदूद्वहः ॥ ८ ॥

वनमाली पीतवासाः पारिजातापहारकः ।
गोवर्धनाचलोद्धर्ता गोपालः सर्वपालकः ॥ ९ ॥

अजो निरंजनः कामजनकः कञ्जलोचनः ।
मधुहामथुरानाथो द्वारकानायको बली ॥ १० ॥

वृन्दावनांतःसंचारी तुलसीदामभूषणः ।
स्यमंतकमणेर्हर्ता नरनारायणात्मकः ॥ ११ ॥

कुब्जाकृष्णांबरधरो मायी परमपूरषः ।
मुष्टिकासुरचाणूरमल्लयुद्धविशारदः ॥ १२ ॥

संसारवैरी कंसारिर्मुररिर्नरकांतकः ।
अनादिर्ब्रह्मचारी च कृष्णाव्यसनकर्षकः ॥ १३ ॥

शिशुपालशिरश्छेत्ता दुर्योधनकुलांतकृत् ।
विदुराक्रूरवरदो विश्वरूपप्रदर्शकः ॥ १४ ॥

सत्यवाक् सत्यसंकल्पः सत्यभामारतो जयी ।
सुभद्रापूर्वजो विष्णुर्भीष्ममुक्तिप्रदायकः ॥ १५ ॥

जगद्‌गुरुर्जगन्नाथो वेणुवाद्यविशारदः ।
वृषभासुरविध्वंसी बाणासुरबलांतकृत् ॥ १६ ॥

युधिष्ठिरप्रतिष्ठाता बर्हिबर्हावतंसकः ।
पार्थसारथिरव्यक्तो गीतामृतमहोदधिः ॥ १७ ॥

कालीयफणिमाणिक्यरंजितश्रीपदांबुजः ।
दामोदर यज्ञभोक्ता दानवेन्द्राविनाशनः ॥ १८ ॥

नारायणः परब्रह्म पन्नगाशनवाहनः ।
जलक्रिडासमासक्तगोपीवस्त्रापहारकः ॥ १९ ॥

पुण्यश्लोकस्तीर्थकरो वेदवेद्यो दयानिधिः ।
सर्वतीर्थात्मकः सर्वग्रहरूपः परात्परः ॥ २० ॥

इत्येवं कृष्णदेवस्य नाम्नमष्टोत्तरं शतम् ।
कृष्णेन कृष्णभक्तेन श्रुत्वा गीतामृतं पुरा ॥ २१ ॥

स्तोत्रं कृष्णप्रियकरं कृतं तस्मान्मया पुरा ।
कृष्णनामामृतं नाम परमानंददायकम् ॥ २२ ॥

अत्युपद्रवदुःखघ्नं परमायुष्यवर्धनम् ।
दानं श्रुतं तपस्तीर्थं यत्कृतं त्विह जन्मनि ॥ २३ ॥

पठतां श्रृण्वतां चैव कोटिकोटिगुणं भवेत्
पुत्रप्रदमपुत्राणामगतीनं गतिप्रदम् ॥ २४ ॥

धनावहं दरिद्राणां जयेच्छूनां जयावहम् ।
शिशूनां गोकुलानां च पुष्टिदंपुष्टिवर्धनम् ॥ २५ ॥

वातग्रहज्वरदीनां शमनं शांतिमुक्तिदम् ।
समस्तकामदं सद्यः कोतिजन्माघनाशनम् ॥ २६ ॥

अन्ते कृष्णस्मरणदं भवताभयापहम् ।
कृष्णाय यादवेंद्राय ज्ञानमुद्राय योगिने ।
नाथाय रुक्मिणीशाय नमो वेदांतवेदिने ॥ २७ ॥

इम मन्त्रं महादेव जपन्नेव दिवानिशम् ।
सर्वग्रहानुग्रहभाक् सर्वप्रियतमो भवेत् ॥ २८ ॥

पुत्रपौत्रैः परिवृतः सर्वसिद्धिसमृद्धिमान् ।
निविश्य भोगानंतेऽपि कृष्णसायुज्यमाप्नुयात् ॥ २९ ॥

॥ इति श्रीनारदपचरात्रे ज्ञानामृतसारे उमामहेश्वरसंवादान्तर्गत धरणीशेषसंवादे श्रीकृष्णाष्टोत्तरशतनामस्तोत्रं संपूर्णम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top