वरवरमुनि अष्टोत्तरशतनामस्तोत्रम् ॥

Sri App

श्रीमते रामानुजाय नमः ॥ 

॥ वरवरमुनि अष्टोत्तरशतनामस्तोत्रम् ॥

श्रीशैलेशदयापात्रं धीभक्त्यादिगुणार्णवम् ।
यतीन्द्रप्रवणं वन्दे रम्यजामातरं मुनिम् ॥ १ ॥

तुलामूलावतीर्णश्च शेषांशकलितोदयः । 
सुभगः करुणासिन्धुः सूरिसन्तोषकारकः ॥ २ ॥

त्रिदण्डपाणिः काषायचेलो धवल विग्रहः ।
 शिकी यज्ञोपवीती च श्रीमान् सर्वजगद्गुरुः ॥ ३ ॥

दिव्योर्ध्वपुण्ड्रदीप्ताङ्गः तुलसीमालिकाञ्चितः । 
पुण्डरीकविशालाक्षो महान् पुरुषपुङ्गवः ॥ ४ ॥

रङ्गेशमङ्गलार्थी च रमणीयगुणाकरः । 
जगदुज्जीवनक जानकीनाथजीवनः ॥ ५ ॥

प्रपन्नचातकाम्भोदः परिव्राजकमण्डनः । श्रीवैष्णवकुलाम्भोजभानुराश्रितकल्पकः ॥ ६ ॥

भट्टनाथार्यसेव्याङ्घ्रिर्वरदार्यप्रियङ्करः ।
श्रीवानाचलरामानुजार्यपूज्यपदद्वयः ॥ ७ ॥

अष्टविद्वत्परिवृतः सर्वसूरिनिषेवितः । 
लोकपावनचारित्रः सौम्यः पापविनाशनः ॥ ८ ॥

श्रीरङ्गनायकीपुण्यपुञ्जः सत्त्वनिकेतनः । श्रीजिह्वावदधीशानदासभाग्यफलोदयः ॥ ९ ॥

पराङ्कुशपदाम्भोजभ्रुङ्गः कल्याणसागरः ।
शुचिर्भक्तिनिधिर्ज्ञानधीप्तो वैराग्यभूषणः ॥ १० ॥

श्रीरङ्गनिलयः सर्ववेदवेदान्तपारगः । 
सर्वज्ञमौलिः सारज्ञोद्राविडाम्नायवर्द्धनः ॥ ११ ॥

व्याख्यातजगदाचार्यप्रबन्धो वैदिकोत्तमः । श्रीरामानुजसिद्धान्तवर्द्धनः कलिनाशनः ॥ १२ ॥

श्रीरामानुज सम्बन्धदायकः श्रीविधायकः ।
रामानुजार्यपारम्यस्थापकः तत्त्वदीपकः ॥ १३ ॥

मृदुः सर्वसमः शान्तोदान्तः स्वामी च वत्सलः ।
 शेषीसुशीलः सुश्लोकः सुभाषीमोक्षदायकः ॥ १४ ॥

हितवादी हितकरः प्रियवादी प्रियङ्करः । 
सुलभः सिद्धधर्माभिरक्षको देशिकोत्तमः ॥ १५ ॥

श्रीरङ्गनायकाचार्य: सेवकाव्याजबान्धवः । 
मन्त्ररत्नार्थनिष्णातो मन्त्रसारतमार्थवित् ॥ १६ ॥

बदरीतापसोद्गीतश्लोकः सुश्लोकवन्दितः । 
अस्तोकमहिमा लोकप्रकाशो लोकजीवनः ॥ १७ ॥

गोदापादाब्जसद्भक्तः कुशली कोविदप्रियः । सर्वपूर्वोत्तराचार्यसुधासागरचन्द्रमाः ॥ १८ ॥

पूर्णचन्द्रप्रभासान्द्रः पूर्णकामः पुराणवित् । 
देवदेवप्रियो दिव्यप्रभावो दीनशेवधिः ॥ १९ ॥

सत्यवाक्दक्षिणकलारक्षको धरणीधरः । 
प्रापकः प्राप्यभूतश्च प्रज्ञावान् प्रतिभाकरः ॥ १९ ॥

अर्थपञ्चकयाथात्म्यदायी दास्याम्रुतप्रदः । 
श्रीसिम्हार्यसम्सेव्यः श्रीमान् वरवरोमुनिः ॥ २० ॥

इदम् श्रीरम्यजामात्रुमुनेरष्टोत्तरम् शतम् ।
दिव्यनाम महापुण्यम् पद्यताम् पापनाशनम् २१ ॥


॥ इति वरवरमुनि अष्टोत्तरशतनामस्तोत्रम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top