॥ श्रीराममङ्गलशासनम् ॥

Sri App

॥ श्रीराममङ्गलशासनम् ॥

मङ्गलं कौशलेन्द्राय महनीयगुणाब्धये।
चक्रवर्तितनूजाय सार्वभौमाय मङ्गलम् ॥

वेदवेदान्तवेद्याय मेघश्यामलमूर्तये।
पुंसां मोहनरूपाय पुण्यश्लोकाय मङ्गलम् ॥

विश्वामित्रान्तरङ्गाय मिथिलानगरीपतेः।
भाग्यानां परिपाकाय भव्यरूपाय मङ्गलम् ॥

पितृभक्ताय सततं भ्रातृभिः सह सीतया।
नन्दिताखिललोकाय रामभद्राय मङ्गलम् ॥

त्यक्तसाकेतवासाय चित्रकूटविहारिणे।
सेव्याय सर्वयमिनां धीरोदयाय मङ्गलम् ॥

सौमित्रिणा च जानक्या चापबाणसिधारिणे।
संसेव्याय सदा भक्त्या स्वामिने मम मङ्गलम् ॥

दण्डकारायवासाय खरदूषणशत्रवे।
गृध्रराजाय भक्ताय मुक्तिदायास्तु मङ्गलम् ॥

सादरं शबरीदत्तफलमूलाभिलाषिणे।
सौलभ्यपरिपूर्णाय सत्त्वोद्रिक्ताय मङ्गलम् ॥

हनुमत्समवेताय हरीशाभीष्टदायिने।
बालिप्रमथानायास्तु महाधीराय मङ्गलम् ॥

श्रीमते रघुवीराय सेतूल्लङ्घितसिन्धवे।
जितराक्षसराजाय रणधीराय मङ्गलम् ॥

विभीषणकृते प्रीत्या लङ्काभीष्टप्रदायिने।
सर्वलोकशरण्याय श्रीराघवाय मङ्गलम् ॥

आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया।
राजाधिराजराजाय रामभद्राय मङ्गलम् ॥

ब्रह्मादिदेवसेव्याय ब्रह्मण्याय महात्मने।
जानकीप्राणनाथाय रघुनाथाय मङ्गलम् ॥

श्रीसौम्यजामातृमुनेः कृपयास्मानुपेयुषे।
महते मम नाथाय रघुनाथाय मङ्गलम् ॥

मङ्गलाशासनपरिर्मदाचार्यपुरोगमैः।
सर्वैश्च पूर्वैराचार्यः सत्कृतायास्तु मङ्गलम् ॥

रम्यजामातृमुनिना मङ्गलाशासनं कृतम्।
त्रैलोक्याधिपतिः श्रीमान् करोतु मङ्गलं सदा ॥

॥ इति श्रीराममङ्गलशासनम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top