॥ अवतारबोधपद्यमालिका ॥

Sri App
श्रीराम जयन्ती -
चैत्रमासे सिते पक्षे नवम्यां च पुनर्वसौ। 
मध्यान्हे कर्कटे लग्ने जातो राम: स्वयं हरिः ॥१॥

श्री नरनारायणाविर्भावः -
कर्कटेहस्तनक्षत्रे बदरीनिलयोद्भवम् । 
अष्टाक्षरप्रदातारं नारायणमहं भजे ॥२॥

श्रीकृष्ण जयन्ती -
सिंहमासेऽसिते पक्षे रोहिण्यामष्टमीतिथौ । 
समुद्भूतं भजे कृष्णं चरमार्थप्रदं गुरूम् ॥३॥

श्रीनृसिंह जयन्ती 
वृषभे स्वातिनक्षत्रे चतुर्दश्यां शुभे दिने । 
सन्ध्याकालेऽनुजेयुक्त स्तम्भोद्भूतो नृकेशरी ॥४॥

श्रीवामन जयन्ती 
मासि भाद्रपदे शुक्ले द्वादश्यां श्रवणे तिथौ । 
आदित्यायां समुद्भूतं उपेन्द्रं वामनं भजे ॥५॥

श्रीरङ्गनाथाविर्भावः
तपस्ये मासि रौहिण्यां तटे शय्याभुव: स्थितम् । 
श्रीरङ्गशायिनं वन्दे सेवितं सर्वदेशिकैः ॥६॥

काञ्चीदेवराजाविर्भाव: मेषे हस्ते
चैत्रमासे सिते पक्षे चतुर्दश्यां तिथौ मुने । 
शोभते हस्तनक्षत्रे रविवारसमन्विते ॥७॥

तिरुनारायणाविर्भावः मीने हस्ते -
सनत्कुमाररक्षार्थमागतं ब्रह्मण: पदात् । 
यदुशैलस्थितं मीने हस्ते नारायणं भजे ॥८॥

श्रीवेङ्कटेशाविर्भाव: कन्यायां श्रवणे - 
कन्याश्रवणसञ्जातं श्रीशेषाचलवासिनम् । 
सर्वेषां प्रथमाचार्य श्रीनिवासमहं भजे ॥९॥

श्रीलक्ष्म्याविर्भाव: मीने उत्तराफाल्गुन्याम् -
फाल्गुनोत्तरफाल्गुन्यां सम्भूतां श्रियमाश्रये । 
विष्णोर्दिव्यपदाम्भोजघटकां तत्पदाश्रिताम् ॥१०॥

श्रीगोदाविर्भावः 
कर्कटे पूर्वफाल्गुन्यां तुलसी काननोद्भवाम् । 
पाण्ड्ये विश्वम्भरां गोदां वन्दे श्रीरङ्गनायकीम् ॥११॥

श्रीसरोयोगिस्वाम्याविर्भाव:
तुलायां श्रवणे जातं काञ्च्याँ काञ्चनवारिजात् । 
द्वापरे पाञ्चजन्याँशं सरोयोगिनमाश्रये ॥१२॥

श्रीभूतयोगिस्वाम्याविर्भाव - 
तुलाधनिष्ठा सम्भूतं भूतं कल्लोलमालिनः । 
तीरे फुल्लोत्पले मल्ल्या पुर्यामीडे गदांशकम् ॥१३॥

श्रीमहदाह्वयस्वाम्याविर्भाव
दृष्ट्वा तुष्ट्वा तदा विष्णुं श्रीमयूरपुराधिपम्।। 
कूपे रक्तोत्पले जातं महदाह्वयमाश्रये ॥१४॥

श्री योगिवाहनार्विभाव:
वृश्चिके रोहिणीजातं श्रीपाणं निचुलापुरे । 
श्रीवत्सांशं गायकेन्द्रं मुनिवाहनमाश्रये ॥१५॥

भक्ताङ्घ्रिरेण्वाविर्भाव:
कोदण्डज्येष्ठानक्षत्रे मण्डं गुडिपुरोद्भवम् ॥ 
चोलोविनमालांशं भक्ताङ्घ्रिरेणुमाश्रये ॥१६॥

श्री भक्तिसारस्वाम्याविर्भावः
मघायां मकरे मासे चक्रांशं भार्गवोद्भवम् ।
महीसार पुराधीशं भक्तिसारमहं भजे ॥१७॥

श्रीशठकोपस्वाम्याविर्भाव:
वृषभे तु विशाखायांकुरुकापुरिकारिजम् । 
पाण्डयदेशेकलेरादौ शठारिं सैन्यपं भजे ॥१८॥

श्रीकुलशेखरस्वाम्याविर्भाव:
कुम्भे पुनर्वसौ जातं केरले चोलपट्टने 
कौस्तुभांशं धराधीशं कुलशेखरमाश्रये ॥१९॥

श्रीविष्णुचित्तस्वाम्याविर्भाव:
मिथुने स्वातिजं विष्णो रथांशं धन्विन: पुरे । 
प्रपद्ये श्वशुरं विष्णोर्विष्णुचित्तपुरश्शिखम् ॥२०॥

श्रीमधुरकव्याविर्भाव:
मेषे चित्रसमुद्भूतं पांड्यदेशे गदांशकम् । 
श्रीपराङ्कुशसद्भक्तं मधुरं कविमाश्रये ॥२१॥

श्रीपरकालस्वाम्याविर्भावः
वृश्चिके कृत्तिका जातं चतुष्कवि शिखामणिम् । 
षट् प्रबन्ध कृतं शार्ङ्गमूर्तिकलिनमाश्रये ॥२२॥

श्री योगिवाहन स्वाम्याविर्भाव: 
वृश्चिके रोहिणीजातं श्रीपाणं निचुलापुरे। 
श्रीवत्साङ्कं गायकेन्द्रं मुनिवाहनमाश्रये ॥२३॥

श्रीरामानुजाचार्य स्वाम्याविर्भाव:
मेषार्दा सम्भवं विष्णोर्दर्शनस्थापनोत्सुकम् ।
तुण्डीरमण्डले शेषमूर्तिरामानुजं भजे ॥२४॥

श्री वरवरमुनि स्वाम्याविर्भाव:
तुलायामतुले मूले पाण्ड्ये कुन्तीपुरी वरे । 
श्री शेषांशद्भवं वन्दे रम्यजामातरं मुनिम् ॥२५॥

दाशरथ्यवतार:-मेषे पुनर्वसौ
मेषे पुनर्वसुदिने पाञ्चजन्यांशसंभवम् । 
यतीन्द्रपादुकाभिख्यं वन्दे दाशरथिं गुरुम् ॥२६॥

कूरेशावतार:-मकरे हस्ते
मकरे हस्तनक्षत्रे सर्पनेत्रांशसंभवम् । 
श्रीमत्कूरकुलाधीश श्रीवत्सांकमहं भजे ॥२७॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top