धाटीपञ्चकम्

Sri App

॥ श्रीपञ्चधाटी ॥


पादुके यतिराजस्य कथयन्ति यदाख्यया ।
तस्य दाशरथेः पादौ शिरसा धारयाम्यहम् ॥

पाषण्डद्रुमषण्डदावदहनश्चार्वाकशैलाशनिः
बौद्धध्वान्तनिरासवासरपति जैनेभकण्ठीरवः
मायावादि भुजङ्गभङ्गगरुडस्त्रैविद्य चूडामणिः
श्रीरङ्गेशजयध्वजो विजयते रामानुजोऽयं मुनिः ॥१॥

पाषण्ड षण्डगिरिखण्डनवज्रदण्डाः
प्रच्छन्नबौद्धमकरालयमन्थदण्डाः।
वेदान्तसारसुखदर्शनदीपदण्डाः
रामानुजस्य विलसन्तिमुनेस्त्रिदण्डाः ॥ २ ॥

चारित्रोद्धारदण्डं चतुरनयपथालक्रियाकेतुदण्डम्
सद्विद्यादीपदण्डं सकलकलिकथासंहृतेः कालदण्डम् ।
त्रय्यन्तालम्बदण्डं त्रिभुवनविजयच्छत्रसौवर्णदण्डम्
धत्तेरामानुजार्यः प्रतिकथकशिरो वज्रदण्डं त्रिदण्डम् ॥ ३ ॥

त्रय्या माङ्गल्यसूत्रं त्रियुगपयुगपथा रोहणालम्बसूत्रं
सद्विद्यादीपसूत्रं सकलकलिकथासंहतेः कालसूत्रम् ।
प्रज्ञासूत्रं बुधानां प्रशमधनमनः पद्मिनीनालसूत्रं
रक्षासूत्रं मुनीनां जयति यतिपतेर्वक्षसि ब्रह्मसूत्रम् ॥ ४ ॥

पाषण्डसागरमहाबडबामुखाग्निः
श्रीरङ्गराजचरणाम्बुजमूलदासः ।
श्रीविष्णुलोकमणि मण्डपमार्गदायी
रामानुजो विजयते यतिराजराजः ॥ ५ ॥

॥ इति श्रीपञ्चधाटी समाप्ता ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top