॥ श्रीरङ्गनाथसुप्रभातम् ॥

Sri App

॥ श्रीरङ्गनाथसुप्रभातम् ॥

अम्भोरुहाणि विकसन्त्यरुणस्य भासा
शक्रस्य दिग्भवति पाटलिता तथैव।
माना भवत्युडुगणस्य रुचिर्जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ २ ॥

भृङ्गाः पतन्ति कुमुदानि विहाय पद्मे -
ष्वार्तं रथाङ्गमिथुनं समुपैति योगम्।
रौतीह पक्षिपरिषत्परितो जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ३ ॥

उद्यानसद्मसु विहृत्य सह प्रियाभि -
नक्तं युवान उपयान्ति पुनर्गृहाणि।
चन्द्रो न भाति सह दीपगणैर्जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ३ ॥

नक्तं प्रपासु पथिकाः सुखसुप्तिभाजो
निद्रां विहाय परितः स्वपथान् प्रयान्ति।
शोश्रूयते निगमपाठरवो जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ४ ॥

विप्रा गृहीतसकलोपकराः प्रयान्ति
स्नानादिकर्मकरणाय कवेरकन्याम्।
सङ्कल्पयन्ति वनिता वसतीर्जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ५ ॥

सह्याद्रिजापयसि चोषसि यायजूकाः
स्नात्वाग्निहोत्रशरणे प्रणयन्ति वह्नीन्।
वीथ्यां परिभ्रमति भक्तततिर्जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ६ ॥

गोवाजिहस्तिगणिकाः पुरतः स्थितास्ते
वीणाध्वनिः परिजना जलपूर्णकुम्भः।
सज्जार्चकाश्च सकला इतरे जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ७ ॥

वेदान्तयुग्ममुभये विबुधाश्च सर्वे
त्वां बोधयन्ति मुदिताः स्तुतिभिः प्रियाभिः।
उत्तिष्ठ शेषशयनादव तान् जय त्वं
श्रीरङ्गनाथ भगवन् तव सुप्रभातम् ॥ ८ ॥

॥ इति श्रीरङ्गनाथ सुप्रभातं समाप्तम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top