श्रीरामानुजाष्टोत्तरशतनामस्तोम्

Sri App

श्रीरामानुजाष्टोत्तरशतनामस्तोम्

रामानुजः पुष्कराक्षो यतीन्द्रः करुणाकरः ।
कान्तिमत्यात्मजः श्रीमान् लीलामानुषविग्रहः ॥ १॥

सर्वशास्त्रार्थतत्त्वज्ञः सर्वज्ञः सज्जनप्रियः।
नारायणकृपापात्रः श्रीभूतपुरनायकः ॥ २॥

अमोघो भक्तमन्दारः केशवानन्दवर्धनः।
काञ्चिपूर्णप्रियसखः प्रणतार्तिविनाशनः ॥ ३॥

पुण्यसङ्कीर्तनः पुण्यो ब्रह्मराक्षसमोचकः।
यादवापादितापार्थवृक्षच्छेदकुठारकः ॥ ४॥

अमोघो लक्ष्मणमुनिः शारदाशोकनाशनः।
निरन्तरजनाज्ञाननिर्मोचनविचक्षणः ॥ ५॥

वेदान्तद्वयसारज्ञो वरदाम्बुप्रदायकः।
पराभिप्रायतत्त्वज्ञो यामुनाङ्गुलिमोचकः ॥ ६॥

देवराजकृपालब्धषड्वाक्यार्थमहोदधिः।
पूर्णार्यलब्धसन्मन्त्रः शौरिपादाब्जषट्पदः ॥ ७॥

त्रिदण्डधारी ब्रह्मज्ञो ब्रह्मज्ञानपरायणः ।
रङ्गेशकैंकर्यरतो विभूतिद्वयनायकः ॥ ८॥

गोष्ठीपूर्णकृपालब्धमन्त्रराजप्रकाशकः।
वररङ्गानुकम्पात्त द्राविडाम्नायपारगः ॥ ९॥

मालाधरार्यसुज्ञातद्राविडाम्नायतत्त्वधीः ।
चतुःसप्ततिशिष्याढ्यः पञ्चाचार्यपदाश्रयः ॥ १०॥

प्रपीतविषतीर्थाम्भः प्रकटीकृतवैभवः।
प्रणतार्तिहराचार्यदत्तभि:कभोजनः ॥ ११॥

पवित्रीकृतकूरेशो भागिनेयत्रिदण्डकः।
कुरेशदाशरथ्यादिचरमार्थप्रदायकः ॥ १२॥

रङ्गेशवेङ्कटेशादिप्रकटीकृतवैभवः।।
देवराजार्चनरतो मूकमुक्तिप्रदायकः ॥ १३॥

यज्ञमूर्तिप्रतिष्ठाता मन्नाथो धरणीधरः।
वरदाचार्यसद्भक्तो यज्ञेशार्तिविनाशकः ॥ १४॥

अनन्ताभीष्टफलदो विट्ठलेन्द्रप्रपूजितः।
श्रीशैलपूर्णकरुणालब्धरामायणार्थकः ॥ १५॥

प्रपत्तिधर्मैकरतो गोविन्दार्यप्रियानुजः।
व्याससूत्रार्थतत्त्वज्ञः बोधायनमतानुगः ॥ १६॥

श्रीभाष्यादिमहाग्रन्थकारकः कलिनाशनः।
अद्वैतमतविच्छेत्ता विशिष्टाद्वैतपालकः॥ १७॥

कुरङ्गनगरीपूर्णमन्त्ररत्नोपदेशकः।
विनाशिताखिलमतः शेषीकृतरमापतिः॥ १८॥

पुत्रीकृतशठारातिः शठजिदृणमोचकः।
भाषादत्तहयग्रीवो भाष्यकारो महायशाः ॥ १९॥

पवित्रीकृतभूभागः कूर्मनाथप्रकाशकः ।
श्रीवेङ्कटाचलाधीशशङ्खचक्रप्रदायकः ॥ २०॥

श्रीवेङ्कटेशश्वशुरः श्रीरमासखदेशिकः।
कृपामात्रप्रसन्नार्यो गोपिकामोक्षदायकः ॥ २१॥

समीचीनार्यसच्छिष्यः सत्कृतो वैष्णवप्रियः।
कृमिकण्ठनृपध्वंसी सर्वमन्त्रमहोदधिः ॥ २२॥

अङ्गीकृतान्ध्रपूर्णाख्यः शालग्रामप्रतिष्ठितः।
श्रीभक्तग्रामपूर्णेशविष्णुवर्द्धनरक्षकः॥ २३॥

बौद्धध्वान्तसहस्रांशुः शेषरूपप्रदर्शकः।।
नगरीकृतवेदाद्रिदिल्लीश्वरसमर्चितः ॥ २४॥

नारायणप्रतिष्ठाता सम्पत्पुत्रविमोचकः।
सनत्कुमारजनकः साधुलोकशिखामणिः ॥ २५॥

सुप्रतिष्ठितगोविन्दराजः पूर्णमनोरथः।
गोदाग्रजो दिग्विजेता गोदाभीष्टप्रपूरकः ॥ २६॥

सर्वसंशयविच्छेत्ता विष्णुलोकप्रदायकः।
अव्याहतमहद्वा यतिराजो जगद्गुरुः ॥ २७॥

एवं रामानुजार्यस्य नाम्नामष्टोत्तरं शतम्।
यः पठेच्छृणुयाद्वापि सर्वान् कामानवाप्नुयात् ॥ २८॥

॥ इति श्रीरामानुजाष्टोत्तरशतनामस्तोम् ॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top