॥ अच्युताष्टकम् ॥

Sri App

॥ अच्युताष्टकम् ॥

अच्युतं केशवं राम-नारायणम्
कृष्ण-दामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिकावल्लभम्
जानकीनायकं रामचन्द्रं भजे॥१॥

अच्युतं केशवं सत्यभामाधवम्
माधवं श्रीधरं राधिकाराधितम्।
इन्दिरा मन्दिरं चेतसा सुन्दरम्
देवकीनन्दनं नन्दनं सन्दधे॥२॥

विष्णवे जिष्णवे शङ्खिने चक्रिणे
रुक्मिणी-रागिने जानकी-जानये।
वल्लवी-वल्लभायाऽर्चितायात्मने
कंस-विध्वंसिने वंशिने ते नमः॥३॥

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवार्जित-श्रीनिधे।
अच्युतानन्त हे माधवाधोक्षज
द्वारका-नायक द्रौपदी-रक्षक॥४॥

राक्षसक्षोभितः सीतया शोभितो
दण्डकारण्य-भू-पुण्यता-कारणः।
लक्ष्मणेनान्वितो वानरैः सेवितो-
ऽगस्त्सम्पूजितो राघवः पातु माम्॥५॥

धेनुकारिष्टकोऽनिष्टकृद्-द्वेषिणाम्
केशिहा कंसहृद्-वंशिकावादकः।
पूतनाकोपकः सूरजा-खेलनो
बाल-गोपालकः पातु मां सर्वदा॥६॥

विद्युदाद्योतवान् प्रस्फुरद्वाससम्
प्रावृडम्भोदवत् प्रोल्लसद्विग्रहम्।
वन्यया मालया शोभितोरस्थलम्
लोहिताङ्घ्रिद्वयं वारिजाक्षं भजे॥७॥

कुञ्चितैः कुन्तलैर्भ्राजिमानाननम्
रत्नमौलिं लसत् कुण्डलं गण्डयोः।
हारकेयूरकं कङ्कण-प्रोज्ज्वलम्
किङ्किणी-मञ्जुलं श्यामलं तं भजे॥८॥

॥ इति श्रीमच्छङ्कराचार्यविरचितं अच्युताष्टकम्सम्पूर्णम्॥

#buttons=(Accept !) #days=(20)

Our website uses cookies to enhance your experience. Learn More
Accept !
To Top